________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु ९.]
भभास्करभाष्योपेता
187
स्यपि पन्थामगस्महि स्वस्तिगा
मनेहसं येन विश्वाः परि द्विषो स्वस्ति-अयनी । असि । 'अपीति । पन्थाम् । अगस्महि । स्वस्तिगामिति स्वस्ति-गाम् । अनेहसम् । येन । विश्वाः । परीति । द्विषः। वृणक्ति ।
"अथ तृतीया-अपिपन्थामित्यनुष्टुप् । केचिदाहुः–'प्रथमा धृतिर्नवपदा । यजमानस्य स्वस्त्ययनीत्यादिका तु पञ्चपदा पतिः' इति ॥ अपि च, वयमपि पन्थां पन्थानमगस्महि सम्प्राप्ताः त्वत्प्रसादेन सोम । कीदृशं स्वस्तिगां, स्वस्ति अविनाशं गम्यते येन तादृशम् । 'गाङ् गतौ' इत्यतो विच् । अनेहसं अपापं पापफलरहितं पन्थानं अगमाम । व्यत्ययेनात्मनेपदम्, 'वा गमः' इति सिचः कित्त्वादनुनासिकलोपः । 'पथिमथ्यभुक्षामात् ' इत्यात्वम् व्यत्ययेन द्वितीयायामपि भवति । यहा'आशंसायां भूतवच्च' इति लुङ् । तमपि पन्थानं गम्यास्म स्वस्तिगामनेहसम् । पुनश्च पन्था विशेष्यते—येन पथा गच्छन् विश्वा द्विषः विश्वान् * द्वेष्यान् । लिङ्गव्यत्ययेन स्त्रीत्वम् । यहासम्पदादिलक्षणस्त्रियां क्विप् । परिवृणक्ति परितो वर्जयति । किञ्च-विन्दते लभते च वसु धनं तमगमाम गम्यास्म वा ॥
For Private And Personal Use Only