SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ९.] भट्टभास्करभाष्योपेता 185 न्मा त्वा परिपन्थिनौ विदन्मा त्वा वृको अघायवो मा गन्धर्वो परि-पुरी । विदत् । मा। त्वा । परिपन्थिन इति परि-पन्थिनः । विदन् । मा । त्वा । वृकाः । अघायव इत्यंघ-यवः। मा । गन्धर्वः । विश्वा दायो निहन्यते । विश्वानि धामानि गन्तव्यानि स्थानानि अभि लक्षीकृत्य गच्छ । ' अभिरभागे' इति कर्मप्रवचनीयत्वम् । किञ्च–तथा गच्छन्तं त्वां परिपरी मा विदत् मा प्रापत् । विन्दतेलुंङि लूदित्वादङ् । 'छन्दसि परि' इत्यादिना पर्यवस्था तरि निपात्यते । योध्वन्याक्रम्य बाधते स पर्यवस्थाता । स विश्वावसुर्गन्धर्वोभिप्रेतः यः पूर्वं सोमं पर्यमुष्णात् । ब्राह्मणं च भवति ' मा त्वा परिपरी विददित्याह यदेवादस्सोममाद्वियमाणं गन्धर्वो विश्वावसुः पर्यमुष्णात्तस्मादेवमाहापरिमोषाय '* इति । स इदानीं त्वाम्मा विददिति । किञ्च-सर्व एव परिपन्थिनः विश्वावसोरन्येपि त्वां मा विदन् । तेनैव निपात्यते । किञ्चवृकाः आदाय गन्तारः । कुक वृक आदाने, इगुपधात्कः, पचाद्यच् [ज्वा ?], पुषादिष्टव्यः । अघं पापं वधादिकं तवेच्छन्तः । 'छन्दसि परेच्छायाम् ' इति क्यच् , 'अश्वाघस्यात् ' इत्यात्त्वम् । येध्वनि पीडां कुर्वन्तोन्यत्र बाधितुं अध्वनोपनयन्ति ते त्वां मा दघत् मात्मसात्कार्षुः । दघ पालने, छान्दसश्च्लेरङादेशः । एवं तु वक्ष्यमाणस्यैकवचनस्य विपरिणा *सं. ६-१-११. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy