________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
180
तैत्तिरीयसंहिता
का. १. प्र..
त्यास्सदोदित्यास्सद आ सीदास्तंभ्नाद्दयामृषभो अन्तरिक्षमार्मिमीत वरिमाणं पृथिव्या आसीद
द्विश्वा भुवनानि सम्राविश्वेत्तान त्याः । सदः। असि । अदित्याः । सदः । एति । सीद । अस्तनात् । द्याम् । ऋषभः। अन्तरिक्षम् । अमिमीत । वरिमाणम् । पृथिव्याः। एति । असीदत् । विश्वा । भुवनानि । सम्राडिति सं-राट् ।
__ "तस्मिन्सोमं निदधाति-अदित्या इति ॥ अदित्यास्सदः सदन स्थानीयमेतत् कृष्णाजिनमासीद उपविश अस्मिन् ॥
सोममुपतिष्ठते-अस्तनादिति त्रिष्टुभा ॥ अमिमीतेति द्वितीयस्य पादस्यादिः, अत एव न निहन्यते । अस्तनात् स्तब्धां दृढामकरोत् द्यां द्युलोकम् । ऋषभो वर्षिता अन्तरिक्षममिमीत मितवान् निर्मितवान् । वरिमाणं पृथिव्याः वरिमाणं उरुत्वम् । 'प्रियस्थिर ' इत्यादिना वरादेशः । यद्वा-वरिमाणं वारकत्वम् । 'अन्येभ्योपि दृश्यन्ते ' इति मनिन्, उञ्छादिष्टव्यः । आसीदत् व्याप्तवान् वर्षेण । विश्वा विश्वानि च भुवनानि भूतजातानि आसीदत् इत्येव । यद्वा-अन्तरिक्षममिमीत वरिमाणं च पृथिव्या अमिमीतेत्येव । विश्वानि भुवनानि आसीदत् इत्यन्त वितण्यर्थो वा आसादयति विश्वानि भुवनानीति । 'शेश्छन्दसि बहुळम् ' इति लुक् । सम्राट् सङ्गतदीप्तिः । 'मो
For Private And Personal Use Only