________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. ८.]
भाभास्करभाष्योपेता
119
1179
नोत्पर्जन्यस्य शुष्मेणोदस्थाममृ
तार अनु । उवैन्तरिक्षमन्वृिदिउदिति । ओषधीनाम् । रसैन । उदिति । पर्जन्यस्य । शुष्मेण । उदिति । अस्थाम् । अमृतान् । अनु। उरु। अन्तरिक्षम्। अन्विति । इहि । अदि
सम्बन्धः । आयुस्सोमः अयनीयत्वा*दायुषोन्नस्य वा हेतुत्वात्स एव विशेष्यते । स्वायुषा शोभनमायुर्देयमस्मिन्निति स्वायुः । 'नसुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । तादृशेन त्वया सहाहं उदस्थामुत्तिष्ठामि । छान्दसो लुङ् । — गातिस्था ' इति सिचो लुक् । तदिदमोषधीनां रसेन सारेणोदस्थाम् , पर्जन्यस्य शुष्मेण बलेनोदस्थाम् , तदुभयस्यापि तदधीनत्वात् । किञ्च, अमृतानमरणान् देवान् अनु लक्षीकृत्य उद्दिश्य वा त्वया सहोदस्थाम्, अमरणान् देवान् कर्तुमिति यावत् । उत्तरपदाद्युदात्तत्वे, पूर्ववद्रुत्वानुनासिकौ साहितिको । 'देवता एवान्वारभ्योत्तिष्ठति इति ब्राह्मणम् ॥
सोमवाहनमनोभिप्रैति-उर्विति गायत्र्यैकपदया ॥ विस्तीर्णमाकाशमनुगच्छ निर्वाधं गच्छेति । व्याख्याता चेयम् । ' अन्तरिक्षदेवत्यो ह्येतर्हि सोमः + इति ब्राह्मणम् ॥
नीडे कृष्णाजिनमास्तृणाति-अदित्या इति ॥ अदित्याः देवमातुः सदः सदनं लोकलक्षणं त्वमसि ॥
*-अदनीयत्वा.
सं. ६-१-११.
सं. १-१-२18
For Private And Personal Use Only