________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ७.]
भभास्करभाष्योपेता
177
mmm
177
णमुशनुशंतई स्योनस्स्योन स्वा
नभ्राजावा रे बम्भारे हस्त सुहस्त स्य । ऊरुम् । एति । विश । दक्षिणम् । उशन्न् । उशन्तम् । स्योनः । स्योनम् । "स्वान । भ्राज। अवारे । बम्भारे । हस्त । सुहस्तेति सु-हस्त ।
कामयमानस्त्वं स्योनः सुखस्त्वं स्योनं तादृशं तमाविश । स्यमु स्वन ध्वन शब्दे, ‘शमेश्च' इति नप्रत्ययः । 'अहिज्या ' इत्यादिना वष्टेस्सम्प्रसारणम् । 'देवा वै य५ सोमं '* इत्यादि ब्राह्मणम् ॥
1°स्वानादिभ्यः सोमक्रयणान्परिददाति-स्वानेत्यादिना ॥ स्वानादयः। सोमस्य रसितारः देवाः । स्वानः शब्दयिता। स्वने
य॑न्तात्पचाद्यच् । भ्राजत इति भ्रानः दीप्तिमान् । स एवाच । अंहसामरिः अङ्घारिः । अङ्घभावश्चान्दसः । यहा---अधिगत्याक्षेपे, अङ्घमाना अरयो यस्येत्यवारिः पलायमानशत्रुः । बंभारिः बंभ्रम्यमाणारिः । तस्मिन्नेवाचि, एषोदरादित्वाद्रूपसिद्धिः । हस्तः हसनशीलः अनाहतशत्रुवीर्यः । सहेर्वा आद्यन्तविपर्ययः, अभिभविता शत्रूणाम् । सुहस्तः कल्याणपाणिः, शोभनहस्तकृत्यो वा । कृशानुः नाशयिता शत्रूणाम् । कृश तनूकरणे, तस्मादानुक्प्रत्ययः । यहा-कृशाननयति जीवयतीति अन्तर्भावितण्यर्थात् अनितेरुण्प्रत्ययः । यहा-कृशाः स्वल्पवीर्याः अनवः प्राणिनो यस्मिन् तादृशः । सर्वत्र चात्र षाष्ठिकमामन्त्रितायुदा
*सं. ६.१.११. खि-स्वानः. ख-रक्षयिता.
For Private And Personal Use Only