________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
176
तैत्तिरीयसंहिता
का. १. प्र. २.
ते रायश्श्रयन्तामस्मे ज्योतिस्सो
मविक्रयिणि तमौमित्रो न एहि - सुमित्रधा इन्द्रस्योरुमा विश दक्षिश्रयन्ता । अस्मे इति । ज्योतिः । 'सोमविक्रयिणीति सोम-विक्रयिणि । तमः। मित्रः। नः। एति । इहि । सुमित्रधा इति सुमित्र-धाः। इन्द्रधनानि अयन्ताम् वर्तन्ताम् ममैव याज्या* भवन्त्विति यावत् । त इति वचनात्पूर्वशेषत्वा युक्तमिवां लक्ष्यते ॥
यजमानं शुक्लोणुकया क्षिपति-अस्मे ज्योतिरिति ॥ अस्माकमेव प्रकाशः । पूर्ववदामश्शे इत्यादेशः ॥
'कृष्णोर्णया सोमविक्रयिणं विध्यति ॥ सोमविक्रयिणि तमोस्तु। 'कर्मणीनिर्विक्रियः' इतीनिप्रत्ययः ॥
सोमविक्रयिणस्सोममादत्ते--मित्र इति ॥ हे सोम सुमित्रधाः शोभनानां मित्राणां यजमानानां धारयिता त्वं अस्मान् मित्रोभूत्वा एहि आगच्छ । व्यत्ययेन कृदुत्तरपदप्रकृतिस्वरत्वं बाधित्वा अव्ययपूर्वपदप्रकृतिस्वरत्वम् । यहा-मित्राणां सुधारयिता सुमित्रधाः । सुमित्रधा इति प्रादिसमासे गतित्वाभावादव्ययादिस्वरत्वम् । 'आतो मनिन् ' इति विच् । 'वारुणो वै क्रीतस्सोम उपनद्धः' इति ब्राह्मणम् ॥
यजमानस्य दक्षिण उरावासादयति-इन्द्रस्येति ॥ इन्द्रस्ये श्वरस्य यजमानस्य अरुं दक्षिणमुशन्तं त्वामेव कामयमानं त्वमेव *ख-योग्या. गि-सर्वशेषत्वं, ख. ग-...क्तमिति. सं. ६-१-११,
For Private And Personal Use Only