________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
174
तैत्तिरीयसंहिता
का... प्र. २.
शुक्रेण क्रीणामि चन्द्रं चन्द्रेणामृतममृतेन सम्यत्ते गोरस्मे चन्द्राणि
तपंसस्तनूरसि प्र॒जाप॑तेर्वर्णस्तस्याणामि । चन्द्रम् । चन्द्रेण । अमृतम् । अमृतैन । सम्यत् । ते । गोः । अस्मे इति । चन्द्राणि । 'तपसः । तनूः । असि । प्र॒जाप॑तेरिति मजारस्य चानुस्वाराभावश्छान्दसः । यद्वा तव गोस्सम्यत् तव वाचं सङ्गच्छते यथा तथा क्रीणामि । एतेर्लटश्शत्रादेशः । गोः कर्मणि षष्ठी, 'न लोकाव्यय ' इति प्रतिषेधः व्यत्ययेन न प्रवर्तते । तव वाचा सङ्गच्छमानं क्रीणामीत्यर्यः । अथवासम्यगित्यस्यान्त्यविकारश्चान्दसः, तव वाचस्समीचीनमिति यावत् । 'समस्समिः' इति समिरादेशः । षमष्टम अवैकल्ये, व्यत्ययेन श्यन् , 'छन्दस्युभयथा' इति शतुरार्धधातुकत्वाददुपदेशाल्लसार्वधातुकानुदात्तत्वाभावः । तव वाचोऽविकलं क्रीणामीति ॥ _ 'यजमानाय प्रयच्छति हिरण्यं-अस्मे इति ॥ अस्माकमेव चन्द्राणि हिरण्यानि, न सोमविक्रयिणः; चन्द्रेण क्रीणामीति तु छलमात्रमुक्तमिति । 'सुपां सुलुक् ' इति षष्ठीबहुवचनस्य शे इत्यादेशः । अस्मानेव हिरण्यं पुनः प्राप्नोत्वित्यर्थः । 'देवा वै येन हिरण्येन '* इत्यादि ब्राह्मणम् ॥
अजया क्रीणाति-तपस इति ॥ अना जातिरुच्यते । तपसो यज्ञस्य तनूः शरीरं त्वमसि यागसाधनानां प्रधानभूतासीत्यर्थः ।
*सं. ६.१.१..
For Private And Personal Use Only