________________
Shri Mahavir Jain Aradhana Kendra
अनु. ७.]
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भट्टभास्करभाष्योपैता
सोम॑न्ते॒ क्रीणा॒म्यूर्ज॑स्वन्तं॒ पय॑स्वन्तं वी॒र्या॑वन्तमभिमाति॒षाह शुक्रन्ते
173
'सोम॑म् । ते॒ । क्रीणा॒ामि॒ । ऊर्ज॑स्वन्तम् । पय॑स्वन्तम् । वी॒र्या॑वन्त॒मति॑ वी॒र्य॑ व॒न्त॒म् । अ॒भिमा॑ति॒षाह॒मिय॑भिमाति—साह॑म् । शु॒क्रम् । ते । शुक्रेण॑ । की
उदकवन्तं वा त
(
‘
-
'हिरण्येन पणते - सोमं त इति ॥ हे सोमविक्रयिन् ते तव सकाशात्सोमं क्रीणामि । ऊर्जस्वन्तं रसवन्तं बलवन्तं वा 1 ऊर्जयतेरसुन्प्रत्ययः । पयस्वन्तं क्षीरवन्तं हेतुत्वात् । वीर्यावन्तं वीरकर्मवन्तम् । अन्येषामपि दृश्यते ' इति दीर्घः । अभिमातिषाहं, अभिमातिः पाप्मा तस्याभिभवितारं नाशयितारम् । ' छन्दसि सहः' इति ण्विः, ' सहेस्सादस्सः ' इति षत्वम् । शुक्रं शुद्धं सोमम् । ते इति पुनर्वचनमादरार्थम् । शुक्रेण हिरण्येन क्रीणामि । आख्यातावृत्तिरप्यादराथैव । यद्वा— क्रीत्यन्तरारम्भादुभयं पुनरुपादीयते मूल्यमपि हिरण्य प्रभृति निर्दिश्यते । चन्द्रमाहादकरं सोमं चन्द्रेण तादृशेन हिरण्येन । अमृतं देवानां यजमानस्य वा अमरणहेतुं सोमं अमृतेन तथाविधेन हिरण्येन । मृतं मरणं यस्य सकाशे नास्तीत्यमृतम् । — नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । स्तुत्यर्थमनेकविशेषणोपादानम् । किञ्च – हे सोमविक्रयिन् ते तव गोवचः, सम्यत्संयतं सङ्गतं यथा तथा क्रीणामीति क्रियाविशेषणम् । संपूर्वाद्यमेः क्विपू, छान्दसे अनुनासिकलोपे तुक्, समो मका+ख-ग - मूल्यमपिहीतः. *25
*ख अर्थवन्तम्.
For Private And Personal Use Only