________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
172 .
तैत्तिरीयसंहिता
[का. १. प्र. २.
सुवः । प्रजाभ्यस्वा प्राणाय त्वा व्यानार्य त्वा प्र॒जास्त्वमनु प्राणि
हि प्र॒जास्त्वामनु प्राणन्तु ॥१३॥ क्रतुरिति सु-क्रतुः । कृपा । सुवः । 'प्रजाभ्य इति प्र-जाभ्यः । त्वा । प्राणायोत प्र-अनार्य । त्वा । 'व्यानायेति वि-अनार्य । त्वा । 'प्रजा इति प्र-जाः । त्वम् । अनु । प्रेति । अनिहि । प्रजा इति प्र-जाः। त्वाम् । अनु।प्रेति । अनन्तु ॥१३॥
अनु सप्त च ॥६॥ अवशिष्टं सोमं मितेनोपसमूहति-प्रनाभ्य इति ॥ प्रजानां सदस्याना*मर्थाय त्वामवशिष्टं उपसमूहामि मितं प्रापयामि । 'यद्वै तावानेव सोमस्स्यात् । इत्यादि ब्राह्मणम् ॥
'उष्णीषेणोपसन्नाति-प्राणायेति ॥ प्राणार्थं त्वां सोममुपनह्यामीति । 'प्राणमेव पशुषु दधाति । इति ब्राह्मणम् ॥
'बन्धनं शिथिलीकरोति-व्यानायेति ॥ व्यानार्थं त्वामनुशन्थामीति । 'व्यानमेव पशुषु दधाति । इति ब्राह्मणम् ॥
"यजमानमवेक्षयति सोमं-प्रजा इति ॥ हे सोम प्रजा अनु त्वं प्राणिहि प्रनार्थ जीवेत्यर्थः । प्रनाश्च त्वां प्राणन्तमनु प्राणन्तु त्वयि प्राणति ताः प्राणन्तीति ॥
इति द्वितीये षष्ठोनुवाकः.
*ख-ग-समर्थाना.
सिं.६-१.९.
For Private And Personal Use Only