________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ६.]
भट्टभास्करभाष्योपेता
171
मतिर्भा अदिद्युतत्सवीमनि हि
रेण्यपाणिरमिमीत सुक्रतुः कृपा अमतिः । भाः। अर्दिद्युतत् । सीमनि । हिरण्यपाणिरिति हिरण्य-पाणिः । अमिमीत । सु
तेर्गतिकर्मण औणादिकोतिप्रत्ययः । भासतेः 'भ्राजभास' इति क्विप् । पुनश्च देवो विशेप्यते-यस्य देवस्य सवीमनि सवे अभ्यनुज्ञायां सत्यां येनाभ्यनुज्ञातस्सन् । मनिनि छान्दसमितो दीर्घत्वम् । यहा-इमनिचि 'तुरिष्ठेमेयस्म्' इति लोपः । अस्मदादिस्सोमस्य माता हिरण्यपाणिः हिरण्यसहितपाणिः अमिमीत मिमीते सोमम् । छान्दसो लङ् । सुक्रतुः शोभनकर्मा माता । यहा-ईदृशोहममि मी ति पुरुषव्यत्ययः, 'क्रत्वादयश्च' इत्युत्तरपदाधुदात्तत्वम् । कृपा कल्पनयाङ्गल्यादिविषयया सुवः सुष्टु वृतः आगतोहम् । यहा-कृपा सामर्थ्येन सुवः सुष्टु प्राप्तः यस्य प्रसवेनेति । अन्य आहुः-सवीमनीति निमित्तसप्तमी । सर्वस्य प्रसवार्थं यस्य भासो] विश्वं द्योतयन्ति स देवो हिरण्यपाणिः अपहरणशीलरश्मिः मुक्रतुश्शोभनकर्मा सुवः आदित्यः कृपया मामध्वर्युमाविश्य स्वयमेव सोमं मिमीते । अत्र वा सवीमनीति सम्बध्यते, सर्वस्य प्रसवार्थ स्वयमेव कृपया मामाविश्य सोमं मिमीते इति । कृपू सामर्थ्य, क्विप् , 'सावेकाचः' इति विभक्तेरुदात्तत्वम् । पक्षान्तरेपि क्विवन्तमेव कृपायां वर्तते । तृतीयायां वा आकारः । सुपूर्वादतैर्विचि गुणे स्वः , ' तन्वादीनां छन्दसि बहुळम् ' इत्युवङादेशः , 'न्यस्वरौ स्वरितौ' इति स्वरितत्वम् ॥
For Private And Personal Use Only