________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ५.]
भट्टभास्करभाष्योपेता
167
श्या पश्यस्व त्वष्टीमती ते सपेय
सुरेता रेतो दाना वीरं विदेय तव "त्वष्टीमती । ते । सपेय । सुरेता इति सु-रेताः । रेतः। दाना। वीरम् । विदेय । तव । सन्दशीति __ "पत्नी यजमानमीक्षते-त्वष्टीमतीति अस्तार*बृहत्या वस्वष्टदशपङ्यक्षरया ॥ तल त्वष तनूकरणे, त्वक्षेः क्तिनि त्वष्टिः प्रजननविषयं नैशित्यं सामर्थ्यविशेषः, तद्वती त्वष्टीमती. मिथुनीभवने योग्या । अहं ते तुभ्यं सपेय मिथुनीभवेयम् । पप समवाये, व्यत्ययेनात्मनेपदम् , 'क्रियाग्रहणं च कर्तव्यम् ' इति सम्प्रदानत्वात्त इति चतुर्थी, पत्ये शेते इति यथा । यहा-त्वष्टुर्व्यापारास्त्वष्टयः विविधप्रजानिर्माणशक्तयः । त्वष्टा वै पशूनां मिथुनानां रूपरुत् + इति ब्राह्मणमप्युपपद्यते । त्वष्टारमाचक्षते इति त्वष्टीयतेः 'सर्वधातुभ्यः' इतीन्प्रत्ययः । तद्वती त्वष्टीमती । सर्वत्र 'अन्येषामपि दृश्यते' इति दीर्घः । किञ्च-सुरेता शोभनममोघं यस्यां निषिक्तं शुक्लं सा सुरेताः । 'सोर्मनसी अलोमोषसी' इत्युत्तरपदाधुदात्तत्वम् । रेतश्च त्वया निषिक्तं दधाना गर्भार्थमन्तर्बिभ्रती । 'अभ्यस्तानामादिः' इत्याधुदात्तत्वम् । अहमीदृशीभूत्वा वीरं पुत्रं विदेय लभेय । वेतेः प्रजननवृत्तेः औणादिको रक्प्रत्ययः । विदिर्ला भे, स्वरितेत् , 'आशिषि लिङिः' 'लिङयाशिष्यङ्', सीयुट् , 'छन्दस्युभयथा' इति सार्वधातुकत्वात् सलोपः, अतो लोपाभावश्चान्दसः । तव संदशि संदर्श ने सस्नेहष्टिलाभे । सम्पदादित्वाविप , कदुत्तरपदप्रकृतिस्वरत्वम् ॥
*ख. ग-आस्पद.
सिं. ६-१-८.
For Private And Personal Use Only