________________
Shri Mahavir Jain Aradhana Kendra
166
www. kobatirth.org
तैत्तिरीयसंहिता
Acharya Shri Kailassagarsuri Gyanmandir
राय॒स्तोते॒
राय॒स्सन्दे॑व दे॒व्यो
12
रायः । " वे इति । रार्यः । " तोते । रार्यः । समिति॑ । दे॒व । दे॒व्या । उ॒र्वश्या॑ । प॒श्य॒स्व॒ ।
13
[का. १. प्र. २.
"यजमानाय प्रयच्छति त्वे इति ॥ त्वे तव । ' त्वमावेकवचने ' इति त्वादेशः, पूर्ववत्सप्तम्येकवचनस्य शेआदेशः । हे यजमान त्वयि च रायस्सन्तु ॥
"यजमानः पत्न्यै प्रयच्छति तोत इति ॥ ऊतं रक्षितम् । अवतेर्निष्ठायां ज्वरत्वरादिना ऊठादेशः । त्वया ऊतं तोतम् । त्वदूतमिति वक्तव्ये व्यञ्जनद्वयं लुप्यते, एषोदरादित्वाद्रूपसिद्धिः, ' तृतीया कर्माणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । हे पत्नित्वया रक्षिते च गृहे रायस्सन्तु । ' अर्धो वा एष आत्मनः ' * इत्यादि ब्राह्मणम् । आहु ' तत्सा गृहेषु निदधाति' इति ॥
*सं. ६-१.८.
पत्ती सोमक्रयण्या समीक्षयति — संदेवीति ॥ उरूणि महान्ति श्रेयांसि अद्भुते व्यामोतीत्युर्वशी । अश्नोतेः कर्मण्यण, 'संज्ञापूर्वको विधिरनित्यः' इत्युपधाया वृद्धिर्न क्रियते, वर्णव्यत्ययेन वा ह्रस्वत्वम् 'परादिश्छन्दसि बहुळम् ' इत्युत्तरपदाद्युदात्तत्वम् । देव्या द्योतनवत्या त्वया दृश्यमानया हे देवि सोमक्रयणि सम्पश्यस्व सम्यग्दर्शनवती भव, यथेयमुरूणि श्रेयांस्यभुते तथा पश्येति भावः । ' दृशेश्चेति वक्तव्यम् ' इत्यात्मनेपदम् । — उदात्तयणो हल्पूर्वात् ' इति देव्याः परस्यास्तृतीयाया उदात्तत्वम् ॥
"
For Private And Personal Use Only