________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु ५.]
भट्टभास्करभाष्योपेता
165
वा अपि कृन्तामि योऽस्मान्दष्टि यञ्च वयन्द्विष्म इदमस्य ग्रीवाः
॥११॥ अपि कुन्ताम्य॒स्मे राय॒स्त्वे ताः। अरा॑तयः । इदम् । अहम् । रक्षसः। ग्रीवाः । अपीति । कृन्तामि । यः। अस्मान् । दृष्टि । यम् । च । वयम् । द्विष्मः । इदम् । अस्य । ग्रीवाः ॥ ११ ॥ अपीति । कृन्तामि । “अस्मे इति । परिलिखितास्सन्तु अनेन पदविलेखनेन । कथमित्याह-यदेतत्परिलिखामि इदं खल्वहं रक्षसः ग्रीवा अपिकन्तामि यथेष्टं कृन्तामि छिननि । अपिशब्दः कामचारं द्योतयति । ग्रीवाशब्दो धमनिवचनः, तासां बहुत्वाद्बहुवचनं, यथा 'ग्रीवाभ्योप्रच' इति । कृती छेदने, 'शेमुचादीनाम् ' इति नुम् । तथा योऽस्मान् द्वेष्टि यं च वयं द्विष्मः तस्य द्वेष्टुः द्वेष्यस्य शत्रोः ग्रीवाः इदमपि कृन्तामि यदेतत्परिलिखामि । 'हौ वाव पुरुषौ '* इत्यादि ब्राह्मणम् । इदमिति क्रियाविषेणत्वान्नपुंसकत्वम् ॥ ___ पदपांसून धरण्यां संवपति-अस्मे इति ॥ अस्मे अस्मासु । ‘सुपां सुलुक्' इति सप्तमीबहुवचनस्य शेआदेशः । अनेन पदपांसुसंवापेन अस्माकं रायः धनानि पश्वात्मकानि सन्तु । 'पशवो वै सोमक्रयण्यै पदम् '* इत्यादि ब्राह्मणम् । अत्र चाध्वर्युरात्मार्थ मेवाशास्ते, न यजमानार्थम् । 'आत्मानमेवाध्वर्युः पशुभ्यो नान्तरेति '* इति दर्शनात् ॥ *सं. ६-१-८.
*24
For Private And Personal Use Only