________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
164
तैत्तिरीयसंहिता
का. १. प्र. २.
मि देवयजन इडायाः पदे घृतवति स्वाहा परिलिखित रक्षः परिलि
खिता अरांतय इदमह रक्षसो ग्रीन इति देव-यजने । इायाः। पदे । घृतवतीति घृत-वति । स्वाहा । परिलिखितमिति परि-लिखितम् । रक्षः। परिलिखिता इति परि-लिखि'न डिसम्बुध्योः' इति नलोपाभावः । देवयजने । देवा इज्यन्तेस्मिन्नित्यधिकरणे ल्युट् , कृदुत्तरपदप्रकृतिस्वरत्वम्* | 'पृथिव्या ह्येष मूर्धा यदेवयजनम् । इत्यादि ब्राह्मणम् । इडायाः पदे इडा सोमक्रयणी, 'पशवो वा इडा', तस्यास्सप्तमे पदे । कीदृशे ? घृतवति । 'यदेवास्यै पदाइतमपीड्यत' इति ब्राह्मणम् । 'सा यत्रयत्र न्यक्रामत्ततो घृतमपीड्यत ' इति च । हे आज्य तस्मिन् तादृशे पदे त्वामाजिघमि मर्यादया क्षारयामि । घृ क्षरणदीप्त्योः जौहोत्यादिकः, 'बहुळं छन्दसि' इत्यभ्यासस्येत्वम् । स्वाहा स्वाहुतं भव । यद्वा-इत्थं कर्तव्यमिति स्वयमेव खलु सरस्वत्याह ॥ __ 'पदं परिलिखति-परिलिखितमिति ॥ परिलिखितं परितो नाशितं रक्षोस्तु यदत्र छिद्रान्वेषि । 'गतिरनन्तरः, इति पूर्वपदप्रकृतिस्वरत्वम् । किञ्च अरातयो धनस्यादातारः शत्रवः । वहुळवचनात्कर्तरि क्तिन् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । तेपि *ख. ग-त्वेन प्रत्ययात्पूर्वस्योदात्तत्वम्.
सिं. ६-१-८. सं. २-६.८.
सं. २-६-७.
For Private And Personal Use Only