________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ५.]
भभास्त्र
163
सिं शुक्रास चन्द्रासि बृहस्पतिस्त्वा सुम्ने रण्वतु रुद्रो वसुभिरा
चिकेतु पृथिव्यास्त्वा मूर्धनाजिघअसि । 'बृहस्पतिः । त्वा । सुम्ने । रण्वतु । रुद्रः। वसुभिरिति यसु-भिः । एति । चिकेतु । पृथिव्याः । त्वा । मूर्धन् । एति । जिघर्मि । देवयजस्वरत्वम् । आदित्या आदित्यवती । तेनैवाकारः । शुक्रवती शुक्रा । स एवाकारः । यद्वा-शुक् दीप्तिः तद्वती । तेनैव रेफः । चन्द्रवती चन्द्रा । स एवाकारः । यहा-आह्लादिनी । 'स्फायितञ्चि' इत्यादिना रक्प्रत्ययः । 'पशान्यनु नि कामति'* इत्यादि ब्राह्मणम् ॥
'सप्तमं पदमभिगृह्णाति-बृहस्पतिरिति ॥ बृहस्पतिर्ब्रह्मा, 'ब्रह्म वै देवानां बृहस्पतिः '* इति । वनस्पत्यादित्वादुभयपदप्रकृतिस्वरत्वम् । स त्वां सुम्ने सुखे प्रदेशे रण्वतु मयतु पदं कारयतु । रवि मवि धवि गत्यर्थाः; भौवादिकः, इदित्त्वान्नुम् । किञ्च–क्रियमाणं वसुभिस्सह रुद्रः आचिकेतु अनुजानातु यः पशूनां पतिः । कि त ज्ञाने, जौहोत्यादिकौ,। तयोः प्रथमस्येदं लोटि रूपम् ॥
तस्मिन् पदे जुहोति-पृथिव्या इति ॥ पृथिव्यास्त्वा मूर्धन् मूर्धनि मूर्धस्थानीये पदे । 'सुपां सुलुक्' इति सप्तम्या लुक् , *सं. ६.१.८. +परिदृश्यमाने धातुपाठे तद्वयाख्यानेषु च ‘कि ज्ञाने ' इत्येव दृश्यते.
For Private And Personal Use Only