________________
Shri Mahavir Jain Aradhana Kendra
162
www. kobatirth.org
तैत्तिरीयसंहिता
Acharya Shri Kailassagarsuri Gyanmandir
वस्व्य॑सि॒ रु॒द्रास्यदि॑तिरस्यादित्या
'वस्व । अ॒सि । 'रुद्रा । अ॒सि॒ । 'अदि॑तिः । अ॒सि॒ । 'आ॒दि॒त्या । अ॒सि॒ । शुक्रा । असि । 'च॒न्द्रा ।
[का. १. प्र. २.
सोमेन सख्या सहागच्छेत्यर्थः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अत एव टजभावः । अपिच — रय्या घनेनास्मदीयेन सहा*गच्छ । ' उदात्तयणो हल्पूर्वात् ' इति विभक्तेरुदात्तत्वम् । ' वाचा वा एष विक्रीणीते " इत्यादि ब्राह्मणम् ॥
इति द्वितीये चतुर्थोनुवाकः.
.
1.
1- षदान्यनु निक्रामति सोमकयणीं गच्छन्तीमनुगच्छति - वस्व्यसीत्यादिभिः । एते च षट् पदेषु षण्मन्त्राः ॥ तत्र वसुरुद्रादित्याः सवनत्रयस्य देवताः । अदितिः प्रायणीयोदयनीययोः । शुक्रस्सोमः । चन्द्रं हिरण्यं दक्षिणादिरूपम् वस्वादिमतो यज्ञस्य साधनत्वात् सोमक्रयण्यपि तद्वतीत्युच्यते । वस्वी वसुभिर्देवैः तद्वती त्वमसि । 'छन्दसीवनिपौ इतीकारो मत्वर्थीयः, आद्यु' दात्तत्वं चिन्त्यम् । वृषादिर्वा द्रष्टव्यः । यद्वा-वस्वी प्रशस्ता, प्रशस्तता च वसुभिस्सम्बन्धात् । ' वोतो गुणवचनात् ' इति ङीप्, तत्र हि ' गुणवचनात् ङीबाद्युदात्तार्थम् ' इत्युक्तम् । रुद्रा रुद्रवती । ' लुगकारेकाररेफाच ' इति मत्वर्थीयोकारः । अदितिः अदितिमती । तेनैव मतुपो लुक् अव्ययपूर्वपदप्रकृति
"
*क. ग-संवा.
+सं. ६-१-७.
For Private And Personal Use Only