________________
Shri Mahavir Jain Aradhana Kendra
अनु. ४.]
www. kobatirth.org
भट्टभास्करभाष्योपेता
Acharya Shri Kailassagarsuri Gyanmandir
त्रस्य॑ प॒था स्व॒स्ति सोम॑सखा पुन॒रेहि॑ स॒ह र॒य्या ॥ १०॥
दे॒वि॒ । दे॒वम् । अच्छ॑ । इ॒हि॒ । इन्द्रा॑य॒ । सोम॑म् । रु॒द्रः । त्वा॒ । एति॑ । व॒त॑य॒तु॒ । मि॒त्रस्य॑ । प॒था । स्व॒स्ति । सोम॑स॒खेति॒ सोम॑ स॒खा । पुनः॑ः । एति॑ । इहि । सह । य्या ॥ १० ॥
दक्षि॑णा॒ सोम॑सा पञ्च॑ च ॥ ४ ॥
*सं. ६-१-७.
ख - निजनाम कृत्यं करोतु विधृत्यकुण्ठो भूत्वा दर्शयतु.
6
मन्यताम् । कीदृशः सयूथ्यः समाने यूथे भवः, सगर्भ्यवत् । हे देवि सोमविक्रयणि सा तादृशी त्वं मात्रादिभिरनुज्ञाता त्वं देवं सोममच्छ आभिमुख्येन इहि गच्छ । ' देवी ह्येषा देवस्सोमः ' * इति ब्राह्मणम् । इन्द्राय इन्द्रार्थम् । इन्द्राय हि सोम आह्रियते ' इति ब्राह्मणम् । किश्व - रुद्रावर्त - यतु कृतकृत्यानस्मान्प्रति अविनष्टा । मानयतु । यदेतद्यजुर्न ब्रूयात्पराच्येव सोमक्रयणीयात् '* इत्यादि ब्राह्मणम् । रुद्रोपि न रौद्रभावेन, किन्तु मित्रस्य पथा त्वामावर्तयतु निजकीर्तनापराधमनादृत्य शान्तो भूत्वा वर्तयतु | उदात्तनिवृत्तिस्वरेण तृतीयाया उदात्तत्वम् । ‘क्रूरमिव वा एतत्करोति यद्रुद्रस्य कीर्तयति '* इत्यादि ब्राह्मणम् । हे सोमक्रयणि त्वं च स्वस्ति अविघ्नेन पुनरेव सोमविक्रयिणस्सकाशात् अस्मत्सकाशमेह्यागच्छ । कीदृशी भूत्वा ? सोमसखा भूत्वा, सोमस्सखा यस्यास्तादृशी भूत्वा, कि- अभिमुखा
161
For Private And Personal Use Only
6