________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ४.]
भभास्करभाष्योपेता
159
स्सुप्राची सुप्रतीची सम्भव मित्रस्त्वा पदि बनातु पूषाध्यैनः पात्विन्द्रायाध्यक्षायार्नु त्वा माता मन्य#त्युभयतः-शीणी । सा । नः । सुप्राचीति सु-प्राची । सुप्रतीचीति सु-प्रतीची । समिति । भव । मित्रः । त्वा । पदि । बधातु । पूषा ।
अदितिः अखण्डिता देवमाता चासि । नसमासः, अव्ययपूर्वपदप्रकृतिस्वरत्वम् । कीदृश्यदितिः-उभयतश्शी उभयतरिशरस्का, यज्ञानामाद्यन्तयोरुभयोः शिरस्स्थानीयतया प्रधानभूता । प्रायणीयोदयनीयौ चरू यस्यास्तादृशी । 'शीर्ष छन्दसि' इति शीर्षा देशः, 'नित्यं संज्ञाच्छन्दसोः' इति डीप , वहुव्रीही पूर्वपदप्रकृतिस्वरत्वम्, उभयशब्दात् — इतराभ्योपि दृश्यन्ते ' इति सप्तम्यर्थे तसिल्प्रत्ययात्पूर्वस्योदात्तत्वम् । 'यदेवादित्यः प्रायणीयो यज्ञानामादित्य उदयनीयः '* इत्यादि ब्राह्मणम् । तादृशी त्वं नस्सम्भव सङ्गच्छ स्वात्मनाऽस्मत्सकाशे वर्तस्व । यदा-नः अस्माकं सम्भव, मा कदाचिदुपेक्षिष्ठाः । कथंभूतेत्याह-सुप्राची सुप्रतीची च भूत्वा । प्रागञ्चतीति प्राची । सोमक्रयणं प्रति प्रथमं प्राचीनगतिर्भूत्वा पुनरपि प्रतीची अस्मत्सकाशं प्रत्यागता भूत्वास्माकमेव भवेति । 'ऋत्विक् ' इत्यादिनाऽञ्चेः क्विन्प्रत्ययः । 'अञ्चतेश्वोपसङ्ख्यानम्' इति ङीप् , नकाराकारयोर्लुप्तयोः 'चौ' इति दीर्घः । ततश्शोभना प्राची शोभना प्रतीची । 'प्रादि
*सं. ६-१.७.
For Private And Personal Use Only