________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
158
तैत्तिरीयसंहिता
का. १. प्र. २.
चिदसि मनास धीरसि दक्षिणा ॥ ९ ॥ असि यज्ञियांसि क्षत्रिया
स्यदितिरस्युभयतशीर्णी सा न'चित् । असि । मना । असि । धीः। असि । दक्षिणा ॥ ९ ॥ असि । यज्ञिया । असि । क्षत्रियां । असि । अदितिः । असि । उभयतश्शी
सोमक्रयणीमनुमन्त्रयते-चिदसीति ॥ चेतयतीति चित् । ' बहुळं संज्ञाछन्दसोः' इति णिलुक् । हे सोमक्रयणि वाग्रूपे चेतयमानासि, चैतन्यकार्यत्वात् । 'यद्धि मनसा चेतयते तद्वाचा वदति '* । किञ्च-मना मन्वानासि मनःपूर्वकत्वान्मनसा सह प्रवृत्तेः । 'यद्धि मनसाभिगच्छति '* इति । मन अवबोधने, पचाद्यच् । धीः प्रज्ञा चासि । 'यद्धि मनसा ध्यायति तद्वाचा वदति '* इति । 'ध्यायतेः सम्प्रसारणं च' इति क्विपि सम्प्रसारणम् । एवं [चित्तमनो]ध्यिात्मकतया सर्वप्रवृत्तिहेतुत्वमस्या उक्तम् । यहा-धीः कर्मासि । अस्मिन्पक्षे कर्तृकरणक्रियारूपतया सर्वार्थसाधनत्वमस्याः प्रतिपाद्यते । दक्षिणा शीघ्रगामिनी चासि । दक्ष वृद्धौ शीघ्रार्थे च, 'द्रुदक्षिभ्यामिनन्' इति शीघ्रार्थकदक्षेः इनन्प्रत्ययः । एवं यज्ञिया यज्ञकर्मार्दा चासि । 'यज्ञविग्भ्यां तत्कर्माहतीत्युपसङ्ख्यानम्' इति यत्प्रत्ययः । यज्ञसम्पादिनीत्यर्थः । एवं क्षत्रिया चासि क्षत्रं धनं सोमलक्षणं तस्यापत्यमसि, तत्प्रभवत्वाद्बलप्रभवत्वाच्च । 'क्षत्राः ' । अपिच*सं. ६-१-७.
खि-चेतनवि.
For Private And Personal Use Only