________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ४.]
भभास्करभाष्योपेता
157
मोरक्ष्णः कनीनिकां यदेतशेभि
रीयसे भ्राज॑मानो विपश्चिता अरुहम् । अग्नेः । अक्ष्णः। कनीनिकाम् । यत् । एतशेभिः । ईयसे । भ्राज॑मानः । विपश्चिता ।
यथा-'सूर्य आत्मा '* इति । तस्य तव चक्षुर्भूतं यदेतन्मण्डलं आरुहमारूढोस्मि । रुहेर्लुङि ‘कवृहरुहिभ्यश्छन्दसि' इति च्लेरङादेशः । पुनरपि विशेष्यते--अग्रेस्स्वभूतस्य अक्ष्णः कनीनिकां तारकास्थानीयमेतन्मण्डलमारूढोस्मि । उदात्तनिवृत्तिस्वरेणाक्ष्णः परस्याः षष्ट्या उदात्तत्वम् । तदारोहणं च तत्स्थाने पुरुषेण सह स्वात्मैक्यम् , यथा ‘स यश्चायं पुरुषे । इति । तस्मिन् सति सूर्यस्याग्नेश्च पन्थानमारूढो रक्षोभिर्न बाध्यते । 'एष खलु वा अरक्षोहतः पन्थाः । इत्यादि ब्राह्मणम् । कीदशस्य सूर्यस्येत्याह-यत् यस्त्वम् । यच्छदात्परस्य सोः 'सुपां सुलुक् ' इत्यादिना लुक् । चक्षुरपेक्षया [वा] नपुंसकत्वम् । यस्त्वं एतशेभिः शुक्लवर्णैरश्वैः ईयसे गच्छसि । ईङ् गतौ देवादिकः । एतशब्दाल्लोमादित्वाच्छः, वृषादित्वादाद्युदात्तत्वम् । यद्वा-' एतेरतशतसुनौ' इति तसुन्प्रत्ययः । गमनकुशलाः । यद्वा एतशरीरा एतशाः । एषोदरादित्वात् यथाभिमतस्वरूपस्वरसिद्धिः । पुनश्च विशेष्यते-विपश्चिता मेधाविना महर्षिगणेन भ्राजमानश्शोभमानः । सह वा तेन । यस्त्वमीयसे तस्य ते मण्डलमारुहम् , इति ॥ *सं. १.४.४३. तैि. उ. २.९. सं. ६-१-७.
*23
For Private And Personal Use Only