________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
156
तैत्तिरीयसंहिता
का. १. प्र. २.
शीय स्वाहाँ शुक्रम॑स्य॒मृतमसि
वैश्वदेव हविस्सूर्यस्य चक्षुरारुह'शुक्रम् । असि । अमृतम् । असि । वैश्वदेवमिति वैश्व-देवम् । हविः । सूर्यस्य । चक्षुः । एति । इत्यादिना यमेस्त्रप्रत्ययः । 'सावेकाचः' इति वाचः परस्याषष्ठ्या उदात्तत्वम् । आत्मन्येव स्थापनं यमनम् । यद्यपि त्वया सोमं क्रीणामि, तथापि त्वहिरहो मे मा भूदित्यर्थः । 'पुनरेहि सह रय्या '* इत्यस्मिन् मन्त्रेप्ययमर्थस्स्पष्टो भविष्यति । 'वाचैव विक्रीय + इत्यादि । कथमस्या यमनं लभत इत्याह-सत्यसवसः प्रसवे । सत्यममोवं सवः प्रेरणं यस्य स सत्यसवाः सविता । सुवतेरसुन् । तस्य देवस्य प्रसवे अनुज्ञाने लब्धे सर्वमिष्टं सम्पद्यत इति । थाथादिस्वरेण प्रसवशब्दोन्नोदात्तः । 'सवितृप्रसूतामेव वाचमवरुन्धे ' इति ब्राह्मणम् ॥
अपरं चतुर्ग्रहीतं गृहीत्वा तद्यजमानमवेक्षयति-शुक्रमिति ॥ शुक्रम् । शुचेर्दीप्तिकर्मणः सम्पदादिलक्षणः किम् , 'लुगकारेकाररेफाश्च वक्तव्याः' । यद्वा—मत्वर्थे रप्रत्ययः, अयस्मयादित्वात्पदत्वात्कुत्वम् । किञ्च-अमृतमप्ति, देवानाममरणहेतुत्वात् । 'नो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । वैश्वदेवं विश्वेदेवत्यं हविस्त्वमसि ॥
'हिरण्यमन्तर्धाय यजमानमादित्यमुदीक्षयति-सूर्यस्येति चतुष्पदयानुष्टुभा । सूर्यो मण्डलान्तर्गतः पुरुषः स्थावरजङ्गमानामात्मा, . सं१-२-४६
.... सं. ६-१-७.
For Private And Personal Use Only