SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -150 तैत्तिरीयसंहिता [का. १. प्र. २. वान्मदिन्तमस्तं वो मावं क्रमिष मच्छिन्नन्तन्तुम्पृथिव्या अर्नु गेषं न्द्रिय-वान् । मदिन्तमः । तम् । वः। मा। अवेति । मिषम् । अच्छिन्नम् । तन्तुम् । पृथिव्याः। आदित्यः, आदित्यादृष्टिः; अद्भय ओषधयः, ओषधीभ्योन्नं, अन्नादग्निः; इत्युभयथापि अपानपात् अग्निः । न पातयतीति नपात् , विपि णिलोपः, नसमासे 'नभ्राण्नपात् । इति नलोपाभावः; आपो इत्यस्य संहितायां 'आपो जुषाणः । इत्यादिना प्रकृतिभावः, 'मुबामन्त्रिते पराङ्गवत्स्वरे' इत्यपामित्यस्य पराङ्गवद्भावः, तेन षष्ठ्यामन्त्रितसमुदायो निहन्यते । युष्मदीयो य उर्मिहविष्यः । हविरहतीति 'छन्दसि च' इति यत्प्रत्ययः । इन्द्रियावान् वीर्यवान् । 'मन्त्रे सोमाश्वेन्द्रिय' इति दीर्घः । मदिन्तमः मादयितृतमः । मदी हर्षे, अस्मादन्त वितण्यर्थात् 'शमित्यष्टाभ्यो घिनुण' इति घिनुण , घटादित्वात् 'मितां द्वस्वः' इति द्वस्वत्वम्, 'नाट्वस्य ' इति तमपो नुडागमः । तं तादृशं वो युष्मत्सम्बन्धिनमूमि मावक्रमिषं पद्यामवक्रम्य मागाम् । 'नेटि' इति वृद्धिप्रतिषेधः । ननु क्रियमाणमेव कथं अपहियते तत्राह—युष्मत्प्रसादादहं अच्छिन्नं तन्तुं यज्ञाख्यमनुगेषं अनुगतो भूयासमविघ्नेन प्राप्यासम् । को हि हविष्यत्वादिगुणविशिष्टं युप्मदीयमूर्मि वृथावक्रामेत् । तस्माद्यज्ञ एवायं मया युष्मदवक्रमणरूपोनुष्ठीयत इति भावः । गा स्तुती छन्दसि जौ होत्या *क. सीति जु. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy