SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ३.] भभास्करभाष्योपेता 151 भद्राभि श्रेयः प्रेहि बृहस्पतिः अन्विति । गेषम् । "भद्रात् । अभीति । श्रेयः । प्रेति । इहि । बृहस्पतिः । पुरएतेति पुरः-एता। दिकः, तस्माद्धातूनामनेकार्थत्वात् गतिकर्मणः आशिषि लिङि 'लिङ्याशिष्यङ्', आतो लोपः, यासुडादि । यहा—'दृष्टानुविधिः छन्दसि' इति इण एव चाशिषि लिङि गादेशः । कस्यायमच्छिन्नतन्तुत्वेन यज्ञो रूप्यते तत्राह-एथिव्या अयमच्छिन्नस्तन्तुः, एथिव्यवयवानुस्यूतावयवत्वात् । अन्यत्र हि दीक्षन्ते अन्यत्र देवान्यनन्ते अन्यत्रावभृथमवयन्तीति एथिव्यां तायमानत्वात् तन्तु रेवायं पृथिव्याः । 'उदातयणः' इति एथिव्याः परस्या विभक्तरुदात्तत्वम् । तस्माद्यज्ञरूपत्वात् युष्माभिर्युष्मदवक्रमणं सोढव्यमिति । यहा-सेतुत्वेनायं यज्ञो रूप्यते । स हि एथिव्या उभयतीरस्पर्शित्वात् अच्छिन्नस्तन्तुरिति वक्तुं शक्यते । तमेवाहमनुगच्छामि । सेतुना हि गच्छन्नपोतिक्रामन्नप्यपो नातिकामति । तस्माद्यज्ञाख्येन सेतुना युष्मानतिक्रमतो मे नापराध इति । 'सेतुमेव कृत्वात्येति '* इति ब्राह्मणम् ॥ प्रयाणे कर्तव्ये प्रयाति-भद्रादिति विराजा गायत्र्या, वस्वेकपादत्वात् । अयं च मन्त्रस्सामर्थ्यान्नदीतरणमन्त्रात्पूर्वो द्रष्टव्यः ॥ भद्रात्प्रशस्तादस्मात् स्थानात् श्रेयः प्रशस्यतरं स्थानं योगक्षेमोपपन्नमभिप्रेहि आभिमुख्येन गच्छ । अन्तरात्मानमाह समारूढं वाग्निम् । किञ्च-बृहस्पतिः । 'तद्वृहतोः करपत्योः । *सं. ६.१.४. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy