________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
148
तैत्तिरीयसंहिता
का. १. प्र. २.
भोगाय भव होसि मम भोगाय भव ॥७॥ छागोसि मम भोगाय
भव मेषोसि मम भोर्गाय भव "हयः । असि । मम । भोगाय । भव ॥ ७ ॥ "छार्गः । असि । ममै । भोाय । भव । "मेषः।
1 अश्वं प्रतिगृह्णाति-हय इति ॥ हय गतिकान्त्योः । हयिता विक्रमितासि । पचाद्यचि 'वृषादीनां च ' इत्याद्युदात्तत्वम् । गतमन्यत् । 'विश्वजनादीनां छन्दसि वेति वक्तव्यम् ' इति भवेत्यस्य संहितायां 'छे च' इति तुगभावः ॥
छागं प्रतिगृह्णाति-छाग़ इति ॥ छदनमगतिर्वा छातेरर्थः । छातीति छा[ग]ः । यहा-छादनं छेदनं गच्छति करोति जानातीति वा छागः । 'अन्यत्रापि दृश्यते' इति गमेर्डः, एषोदरादित्वात्स्वरूपविशेषः स्वरविशेपश्चानुसरणीयः, संस्कारविशेषानिर्णयान्नावगृह्यते । ईदृशस्त्वं मम भोगाय भव छेत्ता मा भूः ॥
___12मेषं प्रतिगृह्णाति-मेष इति ॥ मेषः अभिभविता । मिष स्पर्धायाम, पचाद्यच् , असीत्यनेन संहितायां 'स्वरितो वानुदात्ते पदादौ ' इति स्वयते । शिष्टं स्पष्टम् । सर्वत्र लिङ्गसङ्ख्ययोरविवक्षा ॥
For Private And Personal Use Only