________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. ३.]
भभास्करभाष्योपेता
147
न्पूर्त्या विरोधि माहमायुषा चन्द्रमसि मम भोगाय भव वस्त्रमसि
मम भोगाय भवोस्रासि मम मा । अहम् । आयुषा । चन्द्रम् । असि । मम। भोगाय । भव । वस्त्रम् । असि । मम। भोगाय । भव । "उस्रा । असि । मम । भोगाय । अव ।
पुरुषोनयेति पूर्तिः, धनस्येयं संज्ञा । ‘क्तिच्क्तौ च संज्ञायाम् ' इति क्तिचि 'उदात्तयणो हल्पूर्वात् ' इति विभक्तेरुदात्तत्वम् ।।
'हिरण्यं प्रतिगृह्णाति--चन्द्रमसीति ॥ चन्द्रं ह्रादनमसि सर्वेषाम् । चदि आह्लादने, 'स्फायितञ्चि' इत्यादिना रक्प्रत्ययः । ईदक्तुं प्राणिनां क्षीरप्रदानेनासि । शिष्टं स्पष्टम् । वस निवासे, 'स्फायितञ्चि' इत्यादिना रक्प्रत्ययः । मम भोगाय दानाद्युपभोगाय भव पर्याप्नुहि ।। ___ वस्त्रं प्रतिगृह्णाति--वस्त्रमिति ॥ वस्त्रं छादनम्, वस आच्छादने, येन देहस्संछाद्यते । समानमन्यत् । 'हुयामाश्रुवसिभ्यस्त्रन्' इति त्रन्प्रत्ययः ॥
उस्रां प्रतिगृह्णाति-उस्लेति । उस्रा वासहेतुस्त्वं प्राणिनां क्षीरादिप्रदानेन असि । शिष्टं स्पष्टम् । वस निवासे, — स्फाथितञ्चि' इत्यादिना रक्प्रत्ययः, वच्यादिना सम्प्रसारणम्, बहुळवचनात् 'शासिवसिघसीनाम् ' इति षत्वाभावः ॥
For Private And Personal Use Only