________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
146
तैत्तिरीयसंहिता
का. १. प्र. १.
अस्मिन्पक्षे भरेत्यस्यापादादित्वान्निघातो न दुर्लभः, पूर्वत्र तु पादादित्वायत्ययेन निघातो वेदितव्यः । हे सोम इयत् एतावत् इदं मया लब्धमिति हस्ताभिनयेन दर्शयन्नाह । इदं परिमाणमस्येति मतुपि 'किमिदम्भ्यां वो घः' इति वकारस्य च घादेशे 'इदंकिमोरीश्की' इतीशादेशस्य 'यस्य' इति लोपे प्रत्ययमात्रमवशिष्यते, तस्य सत्यपि पित्ते उदात्तनिवृत्तिस्वरेण इयोदेश उदात्तः । एतावन्मे रास्व देहि । रा दाने, व्यत्ययेनात्मनेपदम् , सतिशिष्टोपि लसार्वधातुकस्वरः धातुस्वरेण बाध्यते व्यत्ययेनैव । यहा–रासृ शब्दे, अनुदात्तेत् , 'बहुळं छन्दसि' इति शपो लुक् , ' तास्यनुदात्तत् ' इत्यादिना लसार्वधातुकानुदात्तत्वम् । अयमर्थ:-हे सोम यदिदं मया लब्धं एतन्मे शब्दय यथा ममैव भवति तथैव वक्तुमर्हसीति । यद्वारासतिरयं छन्दास दाने वर्तते, दानार्थेषु नैरुक्कैः पठितत्वात् । किंञ्च-इतोपि भूयः बहुतरं धनमाभर । 'हृग्रहोर्भः' इति भत्वम् । 'यावत एव पशूनभि दीक्षेत '* इति ब्राह्मणम् । किञ्चइदं चाप्यस्तु-अस्मान् एणन् धनेन पूरयन् पुर [न?] स्वामपि पूर्त्या धनपोषण मा विराधि धनपोषण वियुक्तो मा कारि । अहं चायुषा मा विरात्सि वियुक्तो माकार्षि । पृ पालनपूरणयोः ऊयादिकः; प्वाऽदित्वाइस्वः, शतरि कृते विकरणस्वरस्तु लसार्वधातुकस्वरेण न बाध्यत इति शतुरेवोदात्तत्वम् , सत्यामपि सतिशिष्टेन बाधायां 'भाभ्यस्तयोरातः' इत्याकारलोपे उदातनिवृत्तिस्वरेण शतुरेवोदात्तत्वम्, ततः क्तिनि तु सति 'ऋकारल्वादिभ्यः' इति निष्ठावद्भावे प्राप्ते 'न ध्याख्यापछिमदाम् । इंति प्रतिषिद्धयते, तत्र व्यत्ययेन विभक्तरुदात्तत्वम् । यद्वा-पूर्यते ___ *सं. ६.१.४. गि-पुरुस्वय. ग-पोषण. एक-घटा. .
For Private And Personal Use Only