________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. ३.]
भभास्करभाष्योपेता
145
सा देवस्सविता वसौर्वसुदावा रा
स्वेय॑सोमा भूयो भर मा पृणदावेति वसु-दावा । राख । इयत् । सोम । एति । भूयः । भर । मा। पृणन्न् । पूर्त्या । वीति । राधि ।
मादाय मामागच्छतु । याच्जालब्धं हिरण्यादिधनं सनिः, याच्यानन्तरं दीयत इति कृत्वा । षणु दाने, ‘खनिकषि ' इत्यादिना कर्मणि इप्रत्ययः, 'उदात्तयणः । इति विभक्तेरुदात्तत्वम् । सोमो राधसा आगच्छतु । राधो वासः क्षौमढुकूलादि, राध्यते प्रसाध्यतेनेन देह इति कृत्वा । यश्च देवस्सविता सर्वस्य प्रेरकः वसुदावा वसूनां प्रशस्तानां उस्त्रादिचेतनपदार्थानां दाता । 'आतो मनिन् ' इति वनिपि, कदुत्तरपदप्रकृतिस्वरत्वम् । सोपि वसोर्वसुनागच्छतु । सुपां सुपो भवन्तीति तृतीयैकवचनस्य षष्ठयेकवचनम् । यहा—वसोर्वसुसमुदायात् कां चिदुस्त्रां हयं छागं वादायागच्छतु । 'चन्द्रमसि मम भोगाय भव' इत्यादि ग्रहणमन्त्रानुसारेण च एतेषां* विशिष्टविषयत्वं द्रष्टव्यम् । 'अप वै दीक्षितात्सुषुपुषः । इत्यादिब्राह्मणम् ॥ __आहरन्तं दृष्ट्वा जपति-रास्वेति गायत्री त्रिपदाम् ॥ तत्र प्रथमे पादे आङस्सवर्णदीर्घत्वमकृत्वा छन्दो गणयेत् । द्वितीयस्तु इयादेशेन पूरयितव्यः ‘भर मा टणन्पूर्तिया' इति । 'वि राधि माहमायुषा' इति तृतीयस्स्वयमेवाष्टाक्षरः । केचित्तु यजुरादिका एकपदा गायत्रीत्याहुः; आह च 'यदेतद्यजुर्न ब्रूयात् + इति । . *क. एतेषां पदार्थानां.
सिं. ६.१.४.
-
For Private And Personal Use Only