SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तैत्तिरीयसंहिता का. १. प्र. २. प्रबुधै नः पुनर्ददः । त्वम॑ग्ने व्रतपा असि देव आ मय॒ष्वा । त्वम्॥६॥ यज्ञेष्वीड्यः । विश्वे देवा अभि मा माववृत्रन्पूषा सन्या सोमो राधप्र-बुधै । नः । पुनः । ददः । त्वम् । अग्ने। व्रतपा इति व्रत-पाः।असि । देवः। एति । मत्र्येषु। आ। त्वम् ॥६॥ यज्ञेषु । ईड्यः । विश्वे । देवाः। अभीति । माम् । एति । अववत्रन्न् । पूषा । सन्या। सोमः। राधसा । देवः । सविता । वसोः । वसु 'प्रबुद्ध यजमानं वाचयति-त्वमग्ने इति गायत्री त्रिपदां प्रतिष्ठानाम्नीम्, 'विपरीता प्रतिष्ठा '* इति वचनात् । व्याख्याता चेयमृक् 'उभा वामिन्द्रानी' इत्यनुवाको । 'अव्रत्यमिव वा एष करोति यो दीक्षितः । इत्यादि ब्राह्मणम् ॥ __सनिहारान्प्रहिणोति-विश्वे देवा इत्येकपदया त्रिष्टुभा यजुरन्तया ॥ विश्वे सर्वेपि देवाः मामभ्याववृत्रन् । व्यत्ययेन परस्मैपदम् । आभिमुख्येन मां प्रत्यावर्तन्ताम् , धनान्यादायाम्यागच्छन्त्विति यावत् । वृतेर्लुङि 'द्युद्यो लुङि' इति परस्मैपदम् , व्यत्ययेन च्लेश्चङादेशः, 'बहुळं छन्दसि' इत्यडागमः । को देवः केन धनेनेत्याह----पूषा सन्या सनिना सनि *पिं. ३.१५. सिं. १-१-१४13 सं. ६-१-४. य मामाग, For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy