________________
Shri Mahavir Jain Aradhana Kendra
अनु. ३. ]
www. kobatirth.org
भास्करभाष्योपेता
Acharya Shri Kailassagarsuri Gyanmandir
स्स्वाहा॑ग्ने॒ त्वश॑ सु॒ जा॑गृहि व॒यश् सुम॑न्दिषीमहि गोपा॒य न॑स्स्व॒स्तये॑
अ॒व॒न्तु॒ । तेभ्य॑ः । नम॑ः । तेभ्यः । स्वाहा॑ । 'अग्ने॑ ।
1
I
I
1
1431
1
त्वम् । स्विति॑ि । जा॒गृ॒हि॒ । व॒यम् । स्वति॑ । म॒न्द॒षीमहि । गोपाय । नः । स्व॒स्तये॑ । प्र॒बुध॒ इति॑
* सं. ६-१-४,
"
'संविशति — अग्ने त्वमित्यनुष्टुभा चतुष्पदया ॥ हे अग्ने त्वं सुजागृहि अनिद्र आस्स्व । त्वयि तथाकारिणि सति वयं सुमन्दिषीमहि सुष्ठु निर्भयास्स्वप्याम्म । मदि स्तुतिमोदमदस्वनुकान्तिगतिषु । ' स्वपन्तं वै दीक्षितम् * इत्यादि ब्राह्मणम् । त्वं चास्मान्स्वपतो गोपाय रक्ष । 9 सनाद्यन्ता धातवः इति धातुत्वात् धातोरित्यन्तोदात्तत्वम्, पादादित्वान्न निहन्यते । स्वस्तये अविनाशार्थम् । विभक्तयन्तप्रतिरूपको निपातः । यद्वा -- अस गतावित्यस्मात्सुपूर्वात् ' क्तिच्तौ च संज्ञायाम् ' इति क्तिच् कृदुत्तरपदप्रकृतिस्वरत्वम्, व्युत्पत्तयनवधारणान्नावगृह्यते । शोभनगत्यर्थं गोपाय, यथा रक्षोभिर्न बाध्यामहे । किञ्च – नास्मान् पुनः पश्चान्मध्यरात्रे प्रबुधे प्रबोधनाय । सम्पदादित्वात्किप् कृदुत्तरपदप्रकृतिस्वरत्वम् । प्रबोधार्थं ददः देहि, प्रबुद्धाकुर्विति यावत् । ददातेर्लेट 'लेटोडाट ' इत्यडागमः । ' घोर्लोपो लेटि वा ' इत्याकारलोपः । ' इतश्च लोपः '
(
इतीकारलोपः ॥
For Private And Personal Use Only