SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 142 www. kobatirth.org तैत्तिरीयसंहिता [का. १. प्र. २. मनोजाताः जातमनसः, मनोव्यापारमन्तरेण स्वकार्यकरणासम्भवात् । 'निष्ठायाः पूर्वनिपाते जातिकाल सुखादिभ्यः परवचनम्' इति जातशब्दस्य परवचनम् । ' वा जाते' इत्युत्तरपदान्तोदात्तत्वाभावे 'बहुव्रीहौ प्रकृत्या' इंति पूर्वपदप्रकृतिस्वरत्वम्, मनश्शब्दोऽसुन्प्रत्ययान्त आद्युदात्तः । मनोयुजः मनसा मननेन विषयावधारणलक्षणेन युज्यन्त इति । 'सत्सूद्विष' इति क्विपू, कृदुत्तरपदप्रकंतिस्वरत्वम् । सुदक्षाः दक्षन्त इति दक्षाः निपुणाः प्रतिपत्तारः । दक्ष वृद्धौ, पचाद्यच्, वृषादित्वादाद्युदात्तः । शोभना दक्षा येषु मनोयुक्तेषु प्रवर्तमानेषु ते सुदक्षाः । ' आद्युदात्तं चच्छन्दसि' इत्युदात्तत्वम् । यद्वा - दाक्षिण्यं दक्षः । घञन्तः आद्युदात्तः, सुष्ठु दाक्षिण्यं येषामिति बहुव्रीहौ पूर्ववदुत्तरपदाद्युदात्तता । यद्वा — सुष्ठु दक्षाः सुदक्षाः । ' परादिश्छन्दसि बहुळम् ' इत्युत्तरपदाद्युदात्तत्वम् । दक्षपितारः दक्षं पिता पितृस्थानीयं मनो येषां ते दक्षपितारः । ' ऋतश्छन्दसि' इति कपः प्रतिषेधः, वर्णव्यत्ययेनोपधादीर्घत्वम् । ते तादृशा देवा नोऽस्मान् पान्तु रक्षन्तु । पा रक्षणे । किञ्च ते नः अस्मान् अवन्तु रक्षन्तु अनुप्रविशन्तु सदा अस्मासु तिष्ठन्तु । अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशस्वाम्यर्थश्रवणयाचनक्रियेच्छावाप्तचालिङ्गनहिंसादानभाववृद्धिषु । तेभ्यो नमः नमस्कुर्मः । किञ्च, तेभ्यस्स्वाहा स्वाहुतं इदं पीतं पयोस्तु । एतौ चाचमनमन्त्रौ पातुस्सामर्थ्यादिति संवेशनप्रबुद्धयजुर्भ्यां उत्तरौ द्रष्टव्यौ । सुष्वा प्रबुद्धा चाचम्य व्रतयितव्यमिति क्रमः । ' ब्रह्मवादिनो वदन्ति होतव्यं दीक्षितस्य गृहाः '* इत्यादि ब्राह्मणम् ॥ Acharya Shri Kailassagarsuri Gyanmandir *सं. ६-१-४. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy