________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ३.]
भभास्करभाष्योपेता
-141
नो असहशै । ये देवा मौजाता मनोयुजस्सुदक्षा दक्षपितारस्ते नः
पान्तु ते नौवन्तु तेभ्यो नमस्तेभ्यसु-पारा । नः । असत् । वशे । ये । देवाः । मौजाता इति मनः-जाताः । मनोयुज़ इति मनः-युजः । सुदक्षा इति सु-दक्षाः । दक्षपितार इति दक्ष-पितारः । ते । नः । पान्तु । ते । नः ।
'एमन्नादिषु पररूपं वक्तव्यम्' इति पररूपत्वम्, वर्णव्यत्ययेन वा ह्रस्वः, 'तादौ च निति कत्यतौ' इति पूर्वपदप्रकृतिस्वरत्वम् , 'उपसर्गाश्चाभिवर्जम्' इत्यभिशब्दोन्तोदात्तः, व्युत्पत्त्यनवधारणानावगृह्यते । आभिमुख्येन देवान् यष्टुं दैवीं धियं मनामहे । सा च धीः सुपारा शोभनावसाना सुष्टु कर्मणां समाप्तिसाधनभूता । 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । यहा---पार तीर कर्मसमाप्तौ, सुष्टु पारयित्री कर्मणः । पचाद्यच् , कृदुत्तरपदप्रकृतिस्वरत्वम् , थाथादिस्वरो वा । ईदृशी भूत्वा नोऽस्माकं वशे असत् अस्तु अस्मद्वशे वर्तताम् । अस्तेर्लेटि ‘लेटोडायै ' इत्यडागमः, 'इतश्च लोपः परस्मैपदेषु' ॥
व्रतयति—ये देवा इति ॥ 'प्राणा वै देवा मनोजाता मनोयुजः'* इति ब्राह्मणदर्शनात् चक्षुरादयः प्राणाः देवाः, ते हि देवनवन्तः ।
*सं. ६-१-४.
*21
For Private And Personal Use Only