________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
140
तैत्तिरीयसंहिता
का. १. प्र. २.
दैवीन्धिय॑म्मनामहे सुमृडीकामभिष्टये वक़धां यज्ञवाहस सुपारा 'दैवीम् । धियम् । मनामहे । सुमृडीकामिति सु-मृडीकाम् । अभिष्टये। वक़धामिति वर्चःधाम् । यज्ञाहसमिति यज्ञ-वाहसम् । सुपारेति
'मध्यरात्रे प्रबुद्धो यजमान आचामति–दैवीं धियमित्यनुष्टुभा चतुष्पदया ॥ देवानामियं दैवी यया देवान् यष्टुं शक्नोति । 'देवाद्यना' इत्यञ् , जिवादाद्युदात्तत्वम् । तां धियं मनामहे अभ्यस्यामः, भूयोभूयोपि सम्पादयामः । 'पाघ्राध्मास्थाम्नादाणदृश्यर्तिसतिशदसदां पिबनिघ्रधमतिष्ठमनयच्छपश्य धौशीयसीदाः' इति मनादेशः, व्यत्ययेनात्मनेपदम् । सा पुनर्धीः कीदृशीत्याह-सुमृडीकाम् । शोभना मृडीका यस्यामिति बहुव्रीहौ 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । मृड सुखने, तस्मात् 'मृडेरीकन्कननौ' इति कन्प्रत्ययः* । सुखयितारस्सुखहेतवः उच्यन्ते । वर्णोधां वर्चसो दीप्तेर्धात्रीम् । 'आतोनुपसर्गे कः,' कृदुत्तरपदप्रकृतिस्वरत्वम् । यज्ञवाहसं यज्ञं वहतीति यज्ञवाहाः यज्ञनिर्वहणक्षमाम् । — गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च' इति वचनात् 'वहिहाधाञ्भ्यश्चन्दसि' इत्यसुन्प्रत्ययः कारकपूर्वादपि भवति, 'वसेर्णित्' इति तत्रानुवर्तते, ततो वृद्धिः, यज्ञशब्दो नङ्प्रत्ययान्तोऽन्तोदात्तः । किमर्थ मनामहे? अभिष्टये आभिमुख्येन या इष्टिः देवानां तदर्थम् ।
*क-'मृडेरीकवकनौ' इतीकप्रत्ययः. ['मृड: कीकनकङ्कणी' (उ ४-२४) इति सूत्रे कीकन्प्रत्ययेनैव निष्पादितोयं शब्दः.]
For Private And Personal Use Only