________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. २.]
भट्टभास्करभाष्योपेता
139
स्वाहोरोन्तरिक्षात्स्याहा यज्ञं वा
तादा रखे ॥५॥ पृथिवीभ्यामिति द्यावा-पृथिवीभ्याम् । "स्वाहा । उरोः । अन्तरिक्षात् । स्वाहाँ । यज्ञम् । वातात्। एति । रजे ॥ ५॥
मा योनिरसि त्रिश्च ॥२॥
मारभे यज्ञसाधनानां यज्ञजानां* द्यावाप्टथिव्योः स्थितत्वात् । ' द्यावाष्टथिव्याहि यज्ञः + इति च ब्राह्मणम् । यहाद्यावाप्रथिव्योः स्थित्यर्थ यज्ञमारभे । द्यावाप्रथिव्योर्हि यज्ञः स्थितिहेतुत्वेन वर्ण्यते । 'देवताइन्ढे च' इति युगपत्पूर्वोत्तरपदयोः प्रकृतिस्वरत्वम् । द्यावाशब्द आधुदात्तः । एथिवीशब्दो डोषन्तोन्तोदात्तः । किञ्च-पुनरपि तस्या एव वचनेन उरोरन्तरिक्षाद्यज्ञमारभे, अन्तरिक्षानुगृहीतत्वात्सर्वार्थानाम् । 'अन्तरिक्ष हि यज्ञः + इति च ब्राह्मणम् । किञ्च-पुनरपि तस्या एव वचनेन वाताद्यज्ञमारभे । आत्मसमवेतक्रियाशक्तिरूपपरिस्पन्दात्मा प्राणो वातः । ततो यज्ञमारभे, तदधीनत्वात्सर्वव्यापाराणाम् । 'वाताद्वा अध्वर्युर्यज्ञं प्रयुङ्क्ते '' इति ब्राह्मणम् ॥
इति प्रथमस्य काण्डस्य द्वितीयप्रपाठके द्वितीयोनुवाकः.
*क. रभे यज्ञसाधनफलानां.
सं. ६-१०४.
मा. ३.३.१.
For Private And Personal Use Only