________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
138
तैत्तिरीयसंहिता
[का. १. प्र. २.
रूमा पाह्योहचस्स्वाहा यज्ञ
म्मनसा स्वाहा द्यावापृथिवीभ्याय इति सु-उपस्थाः। देवः । वनस्पतिः । ऊर्ध्वः । मा । पाहि । एति । उदृच इत्युत्-ऋचः । "स्वाहा । यज्ञम् । मनसा । 7- स्वाहा । द्यावा
तिष्ठतेः ‘अन्येभ्योपि दृश्यते' इति कर्मणि क्विप् , कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा-उपस्थानमुपस्था । भावे क्विप् , शोभनमुपस्थानं यस्मिन्निति बहुव्रीही 'नञ् सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् , अस्त्रीप्रत्ययान्तत्वाड्रस्वाभावः । देवः दीप्तिमान् वनस्पतिः वनस्पतिविकारः, कार्ये कारणशब्दः । 'उभे वनस्पत्यादिषु युगपत् ' इति पूर्वोत्तरपदयोः युगपत्प्रकृतिस्वरत्वम् । पारस्करप्रभृतित्वात्सुट् । उर्ध्वः अकुटिलः । ईदृशस्त्वं मां पाहि रक्ष । ओढचः आसमाप्तेर्यज्ञस्य । पूर्ववत्प्रत्ययः स्वरश्च । ईदृशं त्वां यजमानाय प्रयच्छामीति भावः । 'वाग्वै देवेभ्योऽपाक्रामत् '* इत्यादि ब्राह्मणम् ॥
16-यजमानं वाचयति-स्वाहेति ॥ आरभ इति सर्वत्र सम्बध्यते, यस्मादित्थं कर्तव्यमिति स्वयमेवाह वाक् तस्मात् त्वयानुज्ञातोहं प्रथमं तावन्मनसा यज्ञमारभे यज्ञाभिमुखं मनः करोमीति । 'मनसा हि पुरुषो यज्ञमभिगच्छति '* इति ब्राह्मणम् । किञ्च तस्या एव वचनेन द्यावाप्रथिवीभ्यां यज्ञ
*सं. ६-१-४.
For Private And Personal Use Only