________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. २.]
भट्टभास्करभाष्योपेता
137
मा मा हिश्सीः कृष्य त्वा सुसस्यायै सुपिप्पलाभ्यस्त्वौषधी
भ्यस्सू पस्था देवो वनस्पतिहिसीः । "कृष्य । त्वा । सुस॒स्याया इति सुसस्यायें । “सुपिप्पलाभ्य इति सु-पिप्पलाभ्यः । त्वा । ओषधीभ्य इत्योषधि-भ्यः । "सूपस्था त्वां यजमानाय प्रयच्छामीति भावः । 'यज्ञो दक्षिणामभ्यध्यायतां समभवत्' इत्यारभ्य 'सा कृष्णविषाणाऽभवत् '* इत्यन्ते ब्राह्मणे स्पष्टमिन्द्रयोनित्वमस्याः ॥
तयान्तर्वेदि लोष्टमुद्धन्ति-कृष्य त्वेति ॥ हे एथिवि या सुसस्या शोभनसस्या कृषिः । 'नञ् सुभ्याम् ' इत्युत्तरपदान्तोदातत्वम् । तदर्थ त्वामुद्धरामीति शेषः । ' इगुपधात्किः ' इति किप्रत्ययान्तोन्तोदात्तः कृषिशब्दः । 'उदात्तयणो हल्पूर्वात् ' इति ततः परस्याश्चतुर्थ्या उदात्तत्वम् ॥
"तया दक्षिणं गोदानं कण्डूयते-सुपिप्पलाभ्य इति ॥ यास्सुपिप्पलाः शोभनफलाः शोभनकरणिका ओषधयः, तदर्थ त्वां कण्डूये इति शेषः । पूर्ववत्स्वरः । ओषधिशब्दे तु दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । 'ओषधेश्च विभक्तावप्रथमायाम्' इति दीर्घः । 'यस्तेन कण्डूयेत'* इत्यादि ब्राह्मणम् ॥ ___औदुम्बरं दण्डं यजमानाय प्रयच्छति—सूपस्था. इति ॥ सुष्टु उपस्थीयते अवष्टभ्य स्थीयते मैत्रावरुणेन प्रेषे कृते ।
*सं. ६-१-३.
For Private And Personal Use Only