________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
136
तैत्तिरीयसंहिता
का. 1. प्र. १
पाहि मा मा मा हिश्सीविष्णोशमासि शर्म यज॑मानस्य शर्म मे यच्छ नक्षत्राणाम्माती
काशात्पाहीन्द्रस्य योनिरसि ॥४॥ मा। मा । मा । हिश्तीः । "विष्णोः । शर्म । असि । शमै । यज॑मानस्य । शर्म । मे । यच्छ। "नक्षत्राणाम् । मा । अतीकाशात् । पाहि । "इन्द्रस्य । योनिः । असि ॥४॥ मा । मा।
वाससा यजमानं प्रोर्णोति-विष्णोरिति ॥ विष्णोरपि शर्म सुखमसि सुखहेतुरसि । यज्ञो वै विष्णुः । किञ्चयजमानस्य शर्मासि । लसार्वधातुकानुदात्तत्वे धातुस्वरः । ईदृशस्त्वं मह्यमपि शर्म यच्छ देहि ॥ _1वसनच्छिद्रेषु यजमानं वाचयति-नक्षत्राणामिति ॥ अतीकाश्छिद्रं, अतीत्य काशत इत्यतीकाशः । पचाद्यच् , घञ् वाधिकरणे, उभयत्रापि थाथादिस्वरेणान्तोदात्तत्वम्, ‘इकः काशे' इति दीर्घत्वम् । नक्षत्राणां सम्बन्धी योतीकाशः नक्षत्रदेवत्यत्वान्नक्षत्राणामतीकाश इति । तस्मान्मां पाहि । हे वासः अतीकाशनिमित्तमनाच्छादनं दोषत्वेन न मन्तव्यम् । नक्षत्राण्येव हि तं दोषं परिहरिप्यन्तीति भावः ।। ___ "कृष्णविषाणे यजमानाय प्रयच्छति---इन्द्रस्येति ॥ इन्द्रस्यापि योनिः कारणमसि त्वम् । ईदृशी त्वं मा मा हिंसीः ।
For Private And Personal Use Only