________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २.
भभास्करभाष्यापता
138
सुतर्माणमधि नाव रुहेमोग
स्याङ्गिरस्यूर्णम्रदा ऊर्जम्मे यच्छ रुहेम । ऊर्छ । असि । आङ्गिरसी । ऊर्णम्रदा इत्यूर्ण-म्रदाः । ऊर्जम् । मे। यच्छ । पाहि । गच्छेम तामिमां धियमिति सम्बध्यते । ननु दुरितसागरं तितीप्रूणां सम्यक्प्रज्ञावतामपि का चिन्नावा भवितव्यमित्यत आहसुतर्माणमिति, सुष्टु दुरितानां तारणकुशलाम् । 'अन्येभ्योपि दृश्यते' इति तरतर्मनिन्प्रत्ययः, कदुत्तरपदप्रकृतिस्वरत्वम् । ईदृशी नावमग्निष्टोमात्मिकाम् वयमधिरुहेम अधिरूढा भूयास्म अनेन चर्माधिरोहणेनेति । रुहेराशिषि लिङ्, 'लिङयाशिष्यङ्'। 'यज्ञो वै सुतर्माणम् ' इति ब्राह्मणम् । 'कृष्णाजिनेन दीक्षयति ब्रह्मणो वा एतद्रूपं यत्कृष्णाजिनम् '* इति ब्राह्मणम् ॥
मेखलां पर्यस्यति-ऊर्गसीति ॥ उर्जयतेः सम्पदादिलक्षणः क्विप् । बलं रसो वाभिधीयते । अङ्गिरसामियमाङ्गिरसीति, यामङ्गिरसो व्यभजन्त । 'अङ्गिरसः सुवर्ग लोकं यन्त उर्न व्यभजन्त '* इत्यादि ब्राह्मणम् । हे मेखले आङ्गिरसि उर्दू त्वमसि उपरिणामभूतैश्शरैनिर्मितत्वात् उर्व्यपदेशः । पुनश्च विशेष्यते--उर्णब्रदाः, ऊर्णा अविसूत्रं, तन्मृद्दी । मृदु मर्दने, असुन्प्रत्ययः । 'ड्यापोस्संज्ञाछन्दसोर्बहुळम् ' इति पूर्वपदस्य द्वस्वत्वम्, उपमानपूर्वपदप्रकृतिस्वरत्वम् । ईदृशी त्वमूर्न बलं मह्यं यच्छ देहि पाहि च माम् । तिङः परत्वान्न निहन्यते । मा च मा हिंसीः ॥
*सं. ६.१.३.
For Private And Personal Use Only