________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
134
तैत्तिरीयसहिता
[का. १. प्र. २.
इमान्धिय५ शिक्षमाणस्य देव क्रतुन्दः वरुण सशिशाधि
ययाति विश्वा दुरिता तरैम 'इमाम् । धिर्यम् । शिक्षमाणस्य । देव । ऋतुम् । दक्षम् । वरुण । समिति । शिशाधि । यया । अतीति । विश्वा । दुरितेति दुः-इता । तरैम । सुतीमिति सु-तर्माणम् । अधीति । नाम् ।
कृष्णाजिनमभिसर्पति—इमामिति त्रिष्टुभा चतुष्पदया ॥ तत्र देवशब्दान्तः प्रथमः । इमामग्निष्टोमविषयां धियं प्रज्ञां शिक्षमाणस्योपाददानस्य पुरुषस्य । शिक्ष विद्योपादाने 'अदुपदेशात् ' इति लसार्वधातुकानुदात्तत्वे धातुस्वरः । दक्षमभिवृद्धिकरम् । दक्ष वृद्धौ शीघ्रार्थे च । प्रवर्तकं वा । क्रतुमग्निष्टोमाख्यमिममस्मदीयं यागं हे देव वरुण संशिशाधि संशितं कुरु, स्वकार्यसमर्थमित्यर्थः। श्यतेलोटि — बहुलं छन्दसि' इति शपश्श्लुः, 'बहुलं छन्दसि' इत्यभ्यासस्येत्वम्, 'सेपिञ्च' इति ‘वा छन्दसि' इत्यपित्त्वप्रतिषेधात् पित्वेन ङित्वाभावात् 'अङितश्च ' इति ईडभावः । इदानी धीविशेष्यते--यया धिया विश्वा दुरिता विश्वानि दुरितानि । 'शेश्छन्दसि बहुलम् ' इति शलोपः । दुःखेन यन्ति एतेष्विति दुरितानि । 'क्तोधिकरणे च' इत्यधिकरणे निष्ठा, थाथादिस्वरेणोत्तरपदान्तोदात्तत्वम् । श्रेयसो विघातकानि कर्माण्युच्यन्ते । तानि सर्वाणि ययाऽतितरेम अतिक्रम्य
For Private And Personal Use Only