________________
Shri Mahavir Jain Aradhana Kendra
__www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
132
तैत्तिरीयसंहिता
[का. १. प्र. २.
वृतवन्तमिमं जनमिषुधिमिवाचरसि; यथा इषुधिरिषूणां निधानं भवति, एवमिमं सर्वसिद्धीनां भाजनत्वेनाचरसि ; तादृशमेनं करोषीति यावत् । 'उपमानादाचारे' इति क्यच् , 'कव्यध्वरप्टतनस्य ' इति विधीयमानो लोपो व्यत्ययेन भवति । अथवा-इषुध शरधारणे, इति कण्डादिरयं द्रष्टव्यः । देवसख्यं गतवतोस्य त्वमिषुध्यसि, इषूणामिषुधिरिव इषुस्थानीयानां सिद्धीनामपादानत्वेनाधारत्वेन च वर्तस इत्यर्थः । एवमामुष्मिका[की]नां सिद्धीनामग्निरेव दातेत्युक्तम् । इदानीमैहिका की नामपि दातृत्वं प्रतिपाद्यते । तत्र धनाधीनत्वात्सर्वसिद्धीनां तन्माहात्म्यं प्रतिपादयति-विश्वे राय इति । रायो धनस्य गोभूमिहिरण्यौदनादिलक्षणस्य विश्वे प्राणिनः । किं? वशवर्तिनः तत्परतन्त्रास्सर्वे इतश्चेतश्च नीयन्ते देवा अपि, किं पुनर्मनुष्याः । कुत एतत् ? ' वैश्वदेव्येतेन '* इति ब्राह्मणदर्शनात् । यत एवं तस्मादयं मर्त्यश्शीघ्रमेव त्वत्सकाशाद्युम्नं धनं वृणीत वरितुमर्हति । स एव लिङ् । त्वमपि तत् द्युम्नं वृणानं मर्त्य पुप्यसे पोषयसि । पुष पुष्ठौ, देवादिकः उदात्तत् , व्यत्ययेनात्मनेपदम् । सर्वाभिमतधनसम्पत्तिः पुष्टिः । यद्वा-तस्य पुरुषस्य द्युम्नं त्वया पुष्यते । पुरुषव्यत्ययेन मध्यमः, स च तिङः परत्वान्न निहन्यते, 'अदुपदेशात् ' इति लसार्वधातुकत्वानुदात्तत्वे कृते विकरणस्यैव स्वरः, श्यनस्तु स्वरव्यत्ययेनोदात्तत्वम् । स्वाहा मुहुतमिदमौद्गृहणाख्यं हविरस्तु । यज्ञस्योद्हणहेतुत्वादियमृगुद्हणी, इदं हविरौगृहणम् यदनया दीयते । 'प्रजापतिर्यज्ञमसृजत सोस्मात्सृष्टः पराडैत्स प्रयजुरव्लीनात् '* इत्यादि ब्राह्मणम् ॥
*सं. ६.१.२.
For Private And Personal Use Only