________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २.]
भभास्करभाष्योपैता
131
131
सख्यं विश्वे राय ईषुध्यसि द्युम्नं वृणीत । सख्यम् । विश्वे । रायः । इषुध्यसि ।
क्षरं प्रथमं पदं, अष्टाक्षराणि त्रीण्यन्यानि ॥ विश्वे प्राणिनः देवस्य नेतुः प्रेरयितुः स्वभूताः वशवर्तिनः नेतव्यत्वेन वर्तन्ते अस्वतन्त्रा वर्तन्त इति यावत् । कोसौ नेता ? सवितेति ब्रूमः । कुत एतत् ?- विश्वे देवस्य नेतुरित्याह सावित्र्येतेन '* इति ब्राह्मणदर्शनात् । स हि सर्वस्य प्रेरकः, येन यत्र यदा कर्म कृतं भोक्तव्यं तत्र नयति ग्रामाद्गामम्, जागरितात्स्वप्नम्, स्वप्नाच्च जागरितम्, इतो लोकादमुं लोकम्, अमुतश्चमम्, इति । एवं तेन सर्वस्येशानेन अस्वतन्त्रा जन्तवः इतश्वेतश्च पशुवन्नीयन्ते । किमधुना विजानता प्रतिपत्तव्यमित्याह-मर्तो वृणीत सख्यम् । मरणधर्मा मनुष्यः । 'हसिमृग्रिण्वामिदमिलूपूर्विभ्यस्तन् ' इति तन्प्रत्ययः । यत एवं देवः करोति अतोसौ मर्तो विजानन देवेन सख्यं वरितुमर्हति त्वत्सकाशात् । 'अh कृत्यतृचश्च' इति लिङ् । समानख्यानः सखा । 'समाने ख्यस्सचोदात्तः' इति ख्यातेरिण्प्रत्ययः, 'समानस्य छन्दसि' इति सभावः, यलोपः इति तत्रानुवर्तते, तस्य भावः सख्यम्, 'सख्युर्यः' इति यः । अयमर्थः-देवेन सवित्रा यत्समानाख्यानत्वं सारूप्यमेकत्वं वा, यस्मिन् सति स एव भूत्वा पारतन्त्र्याद्विमुक्तस्सर्वस्य स्वयं नेता सम्पद्यते, तत्क्षिप्रमयं मयस्त्वत्सकाशाद्वरीतुमर्हति । इदानीमस्य देवेन सख्यं कृतवतः मर्त्यस्याग्निसकाशात्समुपजायमाना सिद्धिरुच्यते-इषुध्यसि । त्वमपि देवसख्यं
*सं. ६.१.२.
-
-
For Private And Personal Use Only