SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 130 130 तैत्तिरीयसंहिता का. १. प्र. २. विश्वे देवस्य नेतुर्मतॊ वृणीत वृधातु । स्वाहा । विश्व । दे॒वस्य॑ । नेतुः । मतः। एवंविधा आपः येषां लोकानां भवत्यश्शं भावयन्ति तान् लोकान् द्यावाप्रथिवी दिवं च पृथिवीं च । 'दिवो द्यावा, इति द्यावादेशः । पृथिवीशब्दो डीपन्तोन्तोदात्तः, 'देवताद्वन्द्वे च' इति पूर्वोत्तरपदयोः प्रकृतिस्वरत्वम् । उरु चान्तरिक्षमसि । त्रीनपि लोकान्नोऽस्माकं अन्नेन हविषा बृहस्पतिर्ब्रह्मा वृधातु वर्धयतु । 'ब्रह्म वै देवानां बृहस्पतिः '* इति ब्राह्मणम् । वृधेर्ण्यन्ताल्लोट् , बहुलमन्यत्रापि' इति णिलुक् । विकरणव्यत्ययेन शः, आगमव्यत्ययेनाडागम उत्तमस्योक्तः प्रथमस्यापि भवति । यहा--लेट उक्तो लोटोपि भवति । एवं यज्ञस्यैव वृद्धयर्थं तदाधाराणां लोकानां वृद्धिः प्रार्थ्य ते । ' द्यावाप्टथिव्योहि यज्ञः '* इत्यादि ब्राह्मणम् । वनस्पत्यादित्वाद्वृहस्पतिशब्दे पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम्, बृहच्छब्दो वृत्तावाद्युदात्तः । स्वाहा सुहुतं चेदमस्तु, युष्मभ्यं वर्धयितव्येभ्यो लोकेभ्यः वर्धयित्रे च बृहस्पतये । एवं स्वाहाकाराधिक्यात् यजुरन्ता विराडियं वेदितव्या । एवमृग्यजुषसमुदायत्वात् अस्य यजुरित्यपि व्यपदेष्टुं शक्यते । यथा 'यदेतद्यजुर्न ब्रूयात् '* इति । भवति ह्यवयवधर्मेणापि समुदायव्यपदेशः, यथा कृष्टेषु चूर्णमिति । अनवसानत्वाद्वा यजुष्टम् ॥ ___ " चैवोद्हणं जुहोति—विश्वेदेवस्येत्यनुष्टुभा चतुष्पदया यजुरन्तया । ‘सा वा एषर्गनुष्टुक् '* इत्यादि ब्राह्मणम् । सप्ता *सं. ६-१-२; For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy