________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
129
w
अनु. २.
भभास्करभाष्योपेता नये स्वाहापो देवीहतीविश्वशम्भुवो द्यावापीथवी उर्वन्तरिक्षं
बृहस्पतिर्नो हविर्षा वृधातु स्वाहा 'आपः । देवीः । बृहतीः । विश्वशम्भुव इति विश्व-शम्भुवः। द्यावापृथिवी इति द्यावा-पृथिवी। उरु । अन्तरिक्षम् । बृहस्पतिः । नः । हविर्षा ।
च ब्राह्मणम् । यस्सरस्वत्यात्मना एथिव्यात्मना च स्थित्वा यागं निर्वर्तयति तस्मा अनये स्वाहा । 'वाचैव पृथिव्या यज्ञ प्रयुके '* इति ब्राह्मणम् । पूष्ण इत्युदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् ॥
जुचा पञ्चमी जुहोति--आप इति त्रिपदया विराजा । एकादशाक्षरास्त्रयः पादाः । उक्तं च, 'ईशैश्च ' इति ॥ हे आपः । षाष्टिकमामन्त्रितायुदात्तत्वम् । हे देवीः देव्यः दीप्तिमत्यः, बृहतीः बृहत्यः । उभयत्र ‘वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । हे विश्वशम्भुवः विश्वस्य लोकस्य शं सुखं भावयन्तीति । भवतेय॑न्तात्विप् , 'बहुलमन्यत्रापि संज्ञाच्छन्दसोः' इति णिलुक् । वर्ष्या आपः सस्यादिनिष्पादनद्वारेण सर्वस्य सुखं भावयन्तीति ता इहामन्त्र्यन्ते । ‘या वै वर्ष्याः '* इत्यादि ब्राह्मणम् । अत्र 'विभाषितं विशेषवचने बहुलवचनम् । इति प्रथमस्य विद्यमानत्वादतः परमामन्त्रितत्रयं निहन्यते । हे
*सं. ६-१-२.
For Private And Personal Use Only