________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
128
तैत्तिरीयसंहिता
का. १. प्र. २.
आकूत्यै प्रयुजेऽनये स्वाहा मेधायै मनसेऽग्नये स्वहाँ दीक्षायै तर्प
सेऽग्नये स्वाहा सरस्वत्यै पूष्णे'आकूत्या इत्या-कूत्यै । प्रयुज इति प्रयुजे । अग्नये । स्वाहा । मेधाय । मनसे । अग्नये । स्वाहा । दीक्षायै । तप॑से । अग्नये । स्वाहा । 'सरस्वत्यै । पूष्णे । अनये । स्वाहा ।
1वेण चतस्रो दीक्षाहुतीर्नुहोति-आकूत्या इति ॥ आकूतिस्सङ्कल्पः । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । प्रयुङ्क्ते इति प्रयुक्, कर्मणां प्रयोक्ता । विपि रुदुत्तरपदप्रकृतिस्वरत्वम् । य आकूतिर्भूत्वा कर्माणि प्रयु) प्रवर्तयति, तस्मा अग्नये स्वाहा हुतमिदमस्तु । 'आकूत्या हि पुरुषः '* इत्यादि ब्राह्मणम् । मेधा ग्रन्थार्थधारणशक्तिः । मनुत इति मनः । मनोतेरसुन् । यो मेधा भूत्वा सर्वान् दुर्बोधानपि मनुते जानाति, तस्मा अनये स्वाहा इति । दीक्षा मौण्ड्यस्नानादिलक्षणा । तपतीति तपः । तपतेरसुन् । यो दीक्षाभूत्वा तपति दुःखयति तस्मा अनये स्वाहा । सरस्वती वाक् । पुष्णातीति पूषा । ' श्वन्नुक्षन् ' इति पुष्णातेः कनिन्प्रत्ययो निपातितः । यस्सरस्वती भूत्वा सर्वानान्पुष्णाति । यहाप्रथिवी पूषा, सर्वार्थपोषणत्वात् । 'पृथिवी पूषा '* इति
*सं. ६-१-२.
For Private And Personal Use Only