________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
126
तैत्तिरीयसंहिता
का. १. प्र. २.
यासो हामह इन्द्रानी द्यावाआगुर इत्या-गुरे । यज्ञियासः । हामहे । "इन्।मी इतीन्द्र अग्नी । द्यावापृथिवी इति हे देवासः यज्ञियासः यज्ञार्हाः । 'यज्ञविग्भ्यां घखनौ ' इति घप्रत्ययः, उभयत्रापि पूर्ववदसुक् । आगुरे उद्योगे यज्ञमारब्धुम् । गुरी उद्यमने, 'घअर्थे कविधानम् ' इति कः, थाथादिस्वरेणान्तोदात्तत्वम् । यद्वा-क्विपि छान्दसं विभक्तयुदात्तत्वम् , चतुर्थी [परा?]*द्युदात्तत्वम् । यद्यस्मात् वो युप्मान् हवामहे आह्वयामः । 'बहुळं छन्दसि' इति सम्प्रसारणम् । पूर्वस्यामन्त्रितस्याविद्यमानत्वान्निघाताभावः । 'अदुपदेशात् ' इति लसार्वधातुकानुदातत्वम् । यस्मादेवं तस्मादस्माभिः प्रस्तूयते ध्वरः । अतस्तत्सिध्यर्थं याचामह इति ॥ ___"शालां यजमानं प्रवेशयति—इन्द्राग्नी इति ॥ हे इन्द्राग्नी। षाष्ठिकमामन्त्रितायुदात्तत्वम् । हे द्यावाप्रथिवी द्यावाप्रथिव्यौ । 'दिवो द्यावा' इति द्यावादेशः, 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् , पूर्वस्याविद्यमानत्वादिदमप्याद्युदात्तमेव । हे आपः। पूर्ववत्स्वरः, द्वयोरप्यविद्यमानत्वात् । हे ओषधीरोषध्यः । 'कदिकारादक्तिनः' इति ङीष् , पूर्वसवर्णदीर्घत्वं पूर्ववत् । ओषधिशब्देनोषधिकारणभूता आप उच्यन्ते । तेन सामानाधिकरण्यात् 'विभाषितं विशेषवचने बहुलवचनम् ' इति पूर्वस्य विद्यमानत्वात् ओषधीरित्यामन्त्रितं निहन्यते । अयं यजमान
*ख-चतुर्थी पूरणाद्युदात्तत्वम्. ग-चतुर्थी पुरायुदात्तत्वम्, ख. ग-अस्माभिः स्तूयते.
For Private And Personal Use Only