________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १.]
भभास्करभाष्योपेता
125
वो देवास ईमहे सत्यधर्माणो
अध्वरे यहाँ देवास आगुरे यज्ञि"एति । वः । देवासः । ईमहे । सत्यधर्माण इति सत्य-धर्मागः । अध्वरे । यत् । वः । देवासः ।
भाप्रत्ययस्योदात्तत्वे शेषस्य चानुदात्तत्वे 'भाभ्यस्तयोरातः ' इत्याकारलोपे उदात्तनिवृत्तिस्वरेणोत्तमैकवचनस्योदात्तत्वम् । यहा'सतिशिष्टस्वरो बलीयानन्यत्र विकरणेभ्यः । इति भास्वरं बाधित्वा लसार्वधातुकस्वर एव प्रवर्तते । तदहं त्वत्प्रसादाच्छकेयं निर्वर्तयितुं शक्तो भवेयम् । शकेराशिषि लिङि 'लिङ्याशिष्यङ्' इत्यङ् । 'छन्दस्युभयथा' इति सार्वधातुकत्वात्सलोपः॥
1"शालां यजमानमानयति-आव इति चतुष्पदयानुष्टुभा । हे देवासः । 'आजसेरसुक् ' । वः युष्मान् आभिमुख्येन ईमहे याचामहे । ईङ् गतौ भौवादिकः* छन्दसि याच्नाकर्मा, ' बहुळं छन्दसि' इति शपो लुक् । यद्वा—भजामहे । सत्यधर्माणः सदा सत्यशीलाः । 'धर्मादनिच्केवलात् ' इति समासान्तः । किमर्थमित्यत आह-अध्वरे यज्ञे निमित्तभूते । 'निमित्तात्कर्मसंयोगे सप्तमी' । अध्वरसिद्धयर्थमीमहे । बहुवीही ' नञ् सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । एवं देवान् याचित्वा इदानी , तस्याध्वरस्य प्रस्थानं देवेभ्यो निवेदयति
-
*क. ग-देवादिकः.
*19
For Private And Personal Use Only