________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
122
तैत्तिरीयसंहिता
का. १. प्र. २.
चिरा पूत एमि सोमस्य तनूरसि तनुवै मे पाहि महीनां पोसि
वर्षोधा असि वचः ॥ १ ॥ माय 'सोमस्य । तनूः । असि । तनुवम् । मे। पाहि । "महीनाम् । पर्यः । असि । वर्षोधा इति वर्चःधाः । असि । वचः ॥ १॥ मयि । धेहि ।
भूतस्सन्नहं आभ्योद्य उत्तीर्य एमि गच्छामि । आभ्य इति ' इदमोन्वादेशेऽशनुदात्तस्तृतीयादौ' इत्येकादेशोनुदात्तः ॥
"वासः परिधत्ते-सोमस्येति ॥ सोमस्य तनूः शरीरमसि शरीरमिव प्रियतममसि, तद्देवत्यत्वाद्वाससः । ‘सौम्यं वै क्षौम देवतया '* इति च ब्राह्मणम् । ईदृशं त्वं मे मम तनुवं शरीरं पाहि पालय । 'कृषिचमितमि ' इत्यादिना तनोतेरुप्रत्ययः, 'तन्वादीनां छन्दसि बहुलम् ' इत्युवङादेशः । 'अनेस्तूषाधानम् '* इत्यादि ब्राह्मणम् ॥
1 नवनीतेन मुखमभ्यते--महीनामिति ॥ महीनां गवाम् । ' नामन्यतरस्याम् ' इति विभक्तेरुदात्तत्वम् । पयोसि । पयोजातत्वात्पय इत्युच्यते । तत्कार्यत्वात् ताछब्द्यम् । किञ्चवर्चसो दीप्तेः · धाः धारकं चासि । लिङ्गव्यत्ययेन पुल्लिङ्गत्वम्, कदुत्तरपदप्रकृतिस्वरत्वम् । ईदृशं त्वं मयि व! धेहि । 'घृतं देवानाम्मस्तु पितृणाम् '* इत्यादि ब्राह्मणम् ॥
*सं. ६-१.१.
For Private And Personal Use Only