________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. 1.].
भभास्करभाष्योपेता
123
धेहि वृत्रस्य कनीनिकासि चक्षुप्पा असि चक्षुर्मे पाहि चित्पतिस्त्वा पुनातु वाक्पतिस्त्वा पु
नातु देवस्त्वा सविता पुनात्व"वृत्रस्य । कनीनिका । असि । चक्षुष्पा इति चक्षुः-पाः । असि । चक्षुः । मे । पाहि । "चित्पतिरिति चित्-पतिः । त्वा । पुनातु । "वाक्पतिरिति वाक्-पतिः । त्वा । पुनातु । "देवः । त्वा । सविता । पुनातु । अच्छिद्रेण ।
13
1'अञ्जनेना)-वृत्रस्येति ॥ वृत्रस्य असुरस्य कनीनिका अक्षिस्थकृष्णमण्डलमसि । ' इन्द्रो वृत्रमहन् तस्य कनीनिका परापतत् '* इत्यादि ब्राह्मणम् । किञ्च-चक्षुप्पाः चक्षुषः पालांगत त्वमसि । पातेर्विचि पूर्ववल्लिङ्गव्यत्ययस्स्वरश्च, 'नित्यं समासेनुत्तरपदस्थस्य ' इति विसर्जनीयस्य सत्वम् , 'आदेशप्रत्यययोः' इति षत्वम् । ईदृशस्त्वं मम चक्षुः पाहि पालनं कुरु दोषरहितं कुरु ॥ ... 12-1दर्भपुञ्जीलैर्यजमानं पवयति-चित्पतिरित्यादिभिः त्रिपदाभिर्गायत्रीभिः ॥ अच्छिद्रेणेति सर्वत्रानुषज्यते । चित् चैतन्यं ज्ञानम् । चेतयतेः ‘अन्येभ्योपि दृश्यन्ते ' इति क्विप् । तस्य पतिरुत्पादकः पालकः चित्पतिः मनइन्द्रियमुच्यते । 'मनो वै
*सं. ६-१-१.
For Private And Personal Use Only