________________
Shri Mahavir Jain Aradhana Kendra
अनु. १.]
www. kobatirth.org
भास्करभाष्योपेता
Acharya Shri Kailassagarsuri Gyanmandir
यापो॑ अ॒स्मान्मा॒तर॑श्शुन्धन्तु घृतेन॑ नो घृत॒पुर्वः पुनन्तु॒ विश्वं॑ - म॒स्मत्प्र व॑हन्तु रि॒प्रमु॒दा॑भ्य॒श्शु
121
T |
अ॒शी । 'आप॑ः । अ॒स्मान् । मा॒तर॑ः । शुन्ध॒न्तु॒ । घृ॒तेन॑ । न॒ः । घृ॒त॒पुव॒ इत घृत - पुर्वः । पुन॒न्तु । विश्व॑म् । अ॒स्मत् । प्रेति॑ । ब॒ह॒न्तु । रि॒प्रम् । "उदिति॑ि । आ॒भ्य॒ः । शुचिः । एति॑ पू॒तः । ए॒मि॒ ।
. 'यजमानमभिषिञ्चति —– आपो अस्मानिति द्विपदया विराजा ॥ आपो मातरः मातृस्थानीयाः अस्मान् यजमानान् शुन्धन्तु शोधयन्तु । किञ्च — घृतेनोदकेन पुनन्तीति घृतपुवः । ' तन्वादीनां छन्दसि बहुळम्' इत्युवङादेशः, कृदुत्तरपदप्रकृतिस्वरत्वम् । पर्जन्यादय उच्यन्ते । ते चास्मान् घृतेनोदकेन पुनन्तु अपापान् कुर्वन्तु । घृ क्षरणे, घृतं क्षरणात् । ' अप्सु दीक्षातपसी '* इत्यादि ब्राह्मणम् ||
" सम्प्रधाव्य रजः प्लावयति — — विश्वमिति विराजैकपदया || अस्मत् अस्मभ्यं अस्मदीयेभ्यो यजमानेभ्यः विश्वं रिप्रं पापं इमा आपः प्रवहन्तु देशान्तरं प्रापयन्तु नाशयन्त्विति यावत् ॥
" एति यजमानः - उदाभ्य इति विराजैकपदया ॥ शुचिः स्नानेन बाह्यतश्शुद्धः । पूतः आचमनेनान्तश्शुद्धः । ' अपोभात्यन्तरत एव मेध्यो भवति' इति ब्राह्मणम् । एवं
*सं. ६-१-१.
For Private And Personal Use Only