SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 तैत्तिरीयसंहिता का. १. प्र. २. न) स्वधिते मैन हिश्सीदेवश्रू रेतानि प्र पे स्वस्त्युत्तराण्यशीएनम् । स्वधित इति ख-धिते । मा। एनम् । हिश्सीः । 'देवभूरिति देव-श्रूः । एतानि । प्रेति । वपे । स्वस्ति । उत्तराणीत्युत्-तराणि । तस्मिन् बर्हिषि स्वधिति तिर्यञ्चं निदधाति-स्वधित इति ॥ स्वस्मिन् प्रयोजने धितिरवस्थानमस्येति स्वधितिः स्वकार्यसमर्थः । धाञः आकारस्येकारः, बहुव्रीहित्वात्पूर्वपदप्रकृतिस्वरत्वम् , इह त्वामन्त्रितायुदात्तत्वम् । हे स्वधिते क्षुर एनं यजमानं मा हिंसीः । हिंसाप्रतिषेधो वप्तुरप्रमादाय ॥ ___ 'प्रवपति–देवभूरिति ॥ देवश्रूर्नाम देवनापितः, देवेषु श्रूयते तत्र प्रसिद्धिं गच्छतीति कृत्वा । शृणोतेः ‘अन्येभ्योपि दृश्यन्ते' इति कर्मणि विच ,* दृशिग्रहणस्य विध्यन्तरोपसङ्गहार्थत्वादीर्घत्वम् , कदुत्तरपदप्रकृतिस्वरत्वम् । देवश्रूरेव भूत्वा अहमेतानि श्मश्रुप्रभृतीनि प्रवपे प्रकृष्टं वपे छिननि । वपतिस्स्वरितेत् । 'केशश्मश्रु वपते । इत्यादि ब्राह्मणम् ॥ उप्तदेशं यजमानोभिमृशति-स्वस्तीति ॥ स्वस्ति अविनेनोत्तराणि कर्माणि अशीय व्याप्नुयाम् । अश्नोतेलिडि 'बहुलं छन्दसि' इति शपो लुक् । सीयुडादि ॥ *ग. ख-क्किप्. सिं. ६.१.१. अत्र अश्नोतेस्स्वादिगणपठितत्वेपि 'व्यत्ययो बहुलम् ' (३-१.८५) इति विकरण व्यत्ययानुसशासनात् शपः प्राप्तिरिति बोध्यम. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy