SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १.] भभास्करभाष्योपेता 119 आप उन्दन्तु जीवसे दीर्घा युत्वाय वर्चस ओषधे त्रायस्वै'आपः । उन्दन्तु । जीवसे । दीर्घायुत्वायेति दीर्घायु-त्वाय । वर्चसे । ओषधे । त्राय॑स्व । अथ द्वितीयः प्रपाठकः. अतः परमग्निष्टोममन्त्राः, येषामाध्वरिका इत्याख्या । एषां च सोमः काण्डऋषिः कृणुष्व पाजः '* इत्यतः प्राक्, अध्वरग्रहदाक्षिणानां सोमार्षयत्वात् ॥ _ 'तत्र दीक्षिप्यमाणस्य यजमानस्य दक्षिणं गोदानमुनत्तिआप इति द्विपदया गायत्र्या ॥ आपः उन्दन्तु क्लेदयन्तु आर्द्रकुर्वन्तु । उन्दी क्लेदने, रौधादिकः, 'नसोरल्लोपः', 'भानलोपः' । जीवसे जीवयितुं इमं यजमानम् । जीवेर्ण्यन्तात् 'तुमर्थे सेसेन् ' इत्यादिना असेप्रत्ययः, णिलोपः । किं दिवसमात्रं जीवयितुम् ? नेत्याह-दीर्घायुत्वाय । बहुव्रीहेर्भावप्रत्ययः । दीर्घमायुरस्य यथा स्यादित्येवमर्थम् । ' इणश्छन्दसि' इत्युणप्रत्ययः । किञ्च-वर्च से तेजसे ॥ - "उर्ध्वाग्रं बर्हिरनुच्छ्यति-ओषध इति ॥ हे ओषधे बहिरात्मिके । आमन्त्रितायुदात्तत्वम् । एनं यजमानं त्रायस्व रक्ष । स्वधितिव्यवधानमेव रक्षणं बर्हिषा ॥ *सं. १-२-१४. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy